SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २९६ ] सिद्धान्तकौमुदी। [उणादि. संपातिः पतिराजः । ६८४ वातेनित् । 'वातिरादिस्यसोमयोः' । ६८५ अर्तेश्च । अरतिरुद्वेगः । ६८६ तृहेः को हलोपश्च। तृणम् । ६८७ वृन्लुटितनिताडिभ्य उलच् तण्डश्च । ब्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः। ६८८ दंसेष्टटनी न आ च । 'दासः सेवकशूद्रयो':। ६८६ दशेश्च । दाशो धीवरः । ६६० उदि चेडेसिः । स्वरादिपाठादव्ययस्वम् । उच्चैः । ६६१ नौ दीर्घश्च । नीचैः। ६६२ सौ रमेः क्लो दमे पूर्वपदस्य च दीर्घः। रमेः सुपूर्वाद्दमे वाव्ये वः स्यात् । किस्वादनु. नासिकलोपः । सूरत उपशान्तो दयालुश्च । ६६३ पूजो यएणुग्घ्रस्वश्च । वातेनित् । वा गतिगन्धनयोरस्मादतिः स्यात् , स च नित् । अर्तेश्च । ऋ गती अस्मादतिः स्यात् , स च नित् । तृहेः क्नो हलोपश्च । तृह हिंसायामस्मात्क्नः स्यात् , हकारस्य लोपश्च । तृणमिति । क्नस्य कित्वाद् गुणाभावः । वृब्लुठितनिताडिभ्यः । वृञ् वरणे, लुठ विलोडने, तनु विस्तारे, तड आघाते एभ्य उलच् स्याद् धातोस्तण्डादेशश्चेत्यर्थः । दंसेष्टटनी न पा च । दसि सेवने अस्मात् टटनौ स्याताम् , धातोर्नकारस्याकारश्चेत्यर्थः । दंशेश्च । दंश दशने अस्मादपि टटनौ स्याताम् , नकारस्याकारश्च । दाश इति । 'कैवर्ते दाशधीवरौ' इत्यमरः । पूर्वसूत्रेऽस्मिन्सूत्रे च टनो विधिरायुदात्तत्वाय । उदि चे.सिः । उदि उपपदे, चिञ् चयने, इत्यस्माडेसिरित्यर्थः । उच्चैरिति । डित्त्वाहिलोपः। नौ दीर्घश्च । नावुपपदे चित्रो डैसिः उपसर्गस्थस्येकारस्य दीर्घश्चेत्यर्थः । नीचैरिति । डित्त्वाट्टिलोपः । सौ रमेः क्तौ दमे । सावुपपदे रमु क्रीडायामित्यस्माद्दमे वाच्ये क्तः स्यात् पूर्वपदस्य सोरन्त्यस्य दीर्घश्चेत्यर्थः । कित्त्वादिति । अनुदात्तोपदेशवनतीत्यादिना । मनुष्य इति । 'स्थूरस्य रायो बृहतो य ईशे' इति मन्त्रे तु योगपुरस्कारास्थिरस्येत्यर्थ इति व्याख्यातम् । पातेः। पा रक्षणे। वातेः। वा गतिगन्धनयोः । रभसकोशस्थमाह वातिरिति । अतः। ऋ गतौ, अस्मादतिः स्यात्स च नित् । तृहेः । तृह हिंसायाम् , कस्य कित्त्वाद् गुणाभावः । वृञ् । वृञ् वरणे, लुठ विलोडने, तनु विस्तारे, तड आघाते, चुरादिः एभ्य उलच स्यात् तण्डादेशश्च धातोः । यद्यपि 'सानसिधर्णसि-' इति सूत्रे तण्डुलशब्दो निपातितस्तथापि प्रत्ययखरेण मध्योदात्तः सः, अयं तु चिस्वरेणान्तोदात्त इति विवेकः । दंसेः। दसि दंशनदर्शनयोः अस्मादृटनौ स्यातां नकारस्याकारश्च । टनो नकार श्राद्युदात्तार्थः। 'दासः शूदे दानपात्रे भृत्यधीवरयोरपि' इति विश्वः। दंशेः। दंश दशनेऽस्मादपि टटनौ स्तो नकारस्य चात्वं स्यात् । 'कैवते दाशधीवरौ' इत्यमरः । उदि । चिञ् चयने । डैसो
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy