SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ [२६५ प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। कनसिः । संप्रसारणम् । उशना । ॥ इत्युणादिषु चतुर्थः पादः ॥ अथ उणादिषु पञ्चमः पादः । ६७६ अदि भुवो डुतच्। अद्भुतम् । ६८० गुधेरूमः । गोधूमः । ६८१ मसेरूनन् । मसूरः प्रथमे पादे असेरुरन् , 'मसेश्च' इत्यत्र व्याख्यातः । ६८२ स्थः किच्च । स्थूरो मनुष्यः । ६८३ पातेरतिः । पातिः स्वामी। भुजिभ्यां विश्वे । विद ज्ञाने, भुज पालनाभ्यवहरणयोः, आभ्यां विश्वशब्दे उपपदेऽसिः स्यात् । सूत्रे विश्वे इति शब्दस्वरूपपरत्वेन सर्वार्थवाचकत्वाऽभावान स्मिन्नादेशः । विश्वं वेत्तीति विश्ववेदाः । वशे कनसिः। वश कान्तौ अस्मात्कनसिप्रत्यय इत्यर्थः । संप्रसारणमिति । कित्त्वादिति भावः । 'उशना भार्गवः कविः' इत्यमरः। इत्युणादिषु चतुर्थः पादः। अथ पञ्चमः पादः । अदि भुवो इतन् । भू सत्तायामस्मादाकस्मिकार्थे 'अद्' इत्यव्यये उपपदे डुतच्प्रत्यय इत्यर्थः । डित्त्वाहिलोपः। अद्भुतम् । गुधेरूमः । गुध परिवेष्टने अस्मादूमप्रत्ययः । गोधूम इति । लघूपधगुणः । मसेरूरन् । मसी परिणाम अस्मादूरन्प्रत्यय इत्यर्थः । 'मङ्गल्यको मसूरोऽथ मकुष्टकमयुष्टको' इत्यमरः । स्थः किच्च । छा गतिनिवृत्ती अस्मादूरन् कित्स्यात् । स्थूर इति । कित्त्वादातो लोपः । पातेरतिः । पा रक्षणे अस्मादतिः स्यात् । सुमनस्तु च' इति द्विरूपकोशः। 'एकाप्सरः प्रार्थितयोर्विवादः' इति रघुः । विदि । विद ज्ञाने, भुज पालनाभ्यवहारयोः, श्राभ्यां विश्वशब्दे उपपदेऽसिः स्यात् । शब्द. खरूपपरत्वाद्विश्व इत्यत्र स्मिन्नादेशो न कृतः। उदाहरणे विश्वं वेत्ति भुके इति विग्रहः । यत्तु 'तत्पुरुषे कृति-' इति सप्तम्या अलुक् विश्ववेदाः अग्निः विश्वेभोजा इन्द्र इत्युज्ज्वलदत्तेनोक्तं तन्न । तथा सति स्मिन्नादेशस्य दुरित्वापत्तेः । 'सुमृळीको भवतु विश्ववेदाः' 'पूषा भगः प्रभृडे विश्वभोजाः' इत्यादिमन्त्रेषु सुपो लुक एव दर्शनाद् वृत्त्यन्तरे तथैवोदाहरणाञ्च । वशेः । वश कान्तौ । 'उशना भार्गवः कविः' इत्यमरः । इत्युणादिषु चतुर्थः पादः। अदि भुवो । अत् इत्यव्ययं आकस्मिकार्थे । अस्मिन्नुपपदे भूधातोईत. चस्यात् । डित्वाहिलोपः अद्भुतमाश्चर्यम् । गुधेः । गुध परिवेष्टने गुध्यते परिवे. ष्टयते प्राणिभिरिति । 'गोधूभो नागरङ्गे स्यादोषधीव्रीहिभेदयोः' इति मेदिनी । मसेः । मसी परिणाम । स्थः । ष्ट्रा गतिनिवृत्तावस्मादूरन् कित्त्वादालोपः। स्थूरो
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy