________________
२६४ ]
सिद्धान्तकौमुदी ।
[ उणादि
पुरसि च । पुरोधाः । ६७१ पुरूरवाः । पुरुषशब्दस्य दीर्घो रौतेर सिश्च निपात्यते । ६७२ चक्षे त्र हुलं शिश्च । नृवत्ताः । ६७३ उषः कित् । उषः । ६७४ दमेरुनसिः । 'सप्ताचिदेमुनाः । ६७५ अङ्गतेर सिरिरुडाग मश्च । अङ्गिराः । ६७६ सर्तेरप्पूर्वादसिः । श्रप्सराः प्रायेणायं भूनि । अपरसः । ६७७ विदिभुजिभ्यां विश्वे । विश्ववेदाः । विश्व भोजाः । ६७८ वशेः
,
पयश्शब्दे उपपदेऽपि धाञोऽसि प्रत्ययः, स च डिदित्यर्थः । पुरसि च । पुरश्शब्दे उपपदेऽपि धाञोऽसिप्रत्ययः, स च डिदित्यर्थः । ' पुरोधास्तु पुरोहितः' इत्यमरः । पुरूरवाः । इत्थं निपात्यत इत्यर्थः । निपातनमेवाह पुरुशब्दस्येति । पुरून् रौतीति विग्रहः । रु शब्दे अस्मादसिः, गुणावादेशौ, पूर्वपदस्य दीर्घश्चेत्यर्थः । अलोऽन्त्यस्येति भावः । ‘पुरूरवा बुधसुतो राजर्षिश्च पुरूरवाः' इत्यमरः । चक्षेर्बहुलं शिश्च । चक्षिड् व्यक्तायां वाचि, अस्मादसिः स्यात् स न बहुलं शिदित्यर्थः । नृचक्षा इति । नृशब्दे उपदे चक्षिधातोरसिः । तस्य च शित्त्वेन सार्वधातुकत्वाचतिङः ख्यात्रिति ख्याञादेशो न । उषः कित् । उष दाहे, अस्मादसिः स्यात्, स च कित् । उष इति । कित्त्वान्न लघूपधगुणः । 'प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि' इत्यमरः । दमेरुनसिः । दम उपशमे, श्रस्मादुनसिः प्रत्यय इत्यर्थः । सप्ताचिर्दमुनाः शुक्रः' इत्यमरः । अङ्गतेर सिरिरुडागमश्च । श्रमिधातोरसिप्रत्ययः, इरुडागमश्चेत्यर्थः । अङ्गिरा ऋषिभेदः । सर्तेरप्पूर्वादसिः । सृ गतौ अस्मादपूर्वादसिप्रत्यय इत्यर्थः । अप्सरा इति । असिप्रत्यये धातोर्गुणः । विदि
पयःशब्द उपपदे डुधाञः पूर्ववत् । पुरसि च । पुरःशब्द उपपदे पूर्ववत् । 'पुरोधास्तु पुरोहितः' इत्यमरः । रौतेरिति । रुशब्दे । 'पुरूरवा बुधसूतो राजर्षिश्च पुरूरवाः' इत्यमरः । चक्षुः । चति व्यक्तायां वाचि श्रस्मादसिः स्यात्स च बहुलं शित् । शित्त्वात्सार्वधातुकसंज्ञायां ख्याञ् न । नृचक्षाः राक्षसाः । शित्त्वाभावपचे तु ख्याञादेशः । प्रख्यः प्रजापतिः । उषः । उष दाहेऽस्मादसिः स्यात्स च कितु । उषः प्रभातम् । दशपायां तु वसः किदिति पाठः । वसति सूर्येण सहेति उषाः देवताविशेषः । ' अपो 'भ' इति सूत्रे ‘उषसश्चेष्यते' इति, वार्तिकस्य समुषद्भिरित्युदाहरणं विवृण्वद्भिर्हरदत्तादिभिरयं पाठः पुरस्कृतः । दमेः । दमु उपशमे । 'सप्तार्चिर्दमुनाः शुक्रः' इत्यमरः । 'क्षे 'अन्येषामपि दृश्यते' इति दीर्घः । 'जुष्टो दमूना: ' ' दमूनसं गृहपतिं वरेण्यम्' । दशापाद्य तु ‘दमेरूनसिः' इति सूत्र एव दीर्घः पठ्यते, तन्मते बाहुलकाद्धस्वो बोध्यः । अगिर्गत्यर्थः । श्रङ्गिरा ऋषिभेदः । सर्तेः । सृ गतौ । प्रायेणेति । 'स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्णवः । ' अप्सरस्त्वप्सराः प्रोक्ता सुमनाः