________________
प्रकरणम् ६७ ] बालमनोरमा तत्त्वबोधिनीसहिता [२६३ असुन्प्रत्यये उक्त्रं तदत्रापि भवतीत्यर्थः । अशेर्देवने युद् चेत्यादि । सुयशाः । ६६३ नत्रि हन एह च । अनेहा अनेहसौ। ६६४ विधामो वेध च । विदधातीति वेधाः। ६६५ नुवोधु च । नोधाः ऋषिः । ६६६ गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च । असिः स्यात् । सुतपाः । जात. वेदाः । 'गतिकारकोपपदास्कृत्' (सू० ३८७३) इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्त तदपवादार्थमिदन् । ६६७ चन्द्रे मोडित्। चन्द्रोपपदान्माङोऽसिः स्यात् , स च डित् । चन्द्रमाः । ६६८ वयसि धात्रः। वयोधास्तरुणः । ६६६ पयसि च । पयोधाः समुद्रो मेघश्च । ६७० असिप्रत्यय इत्यर्थः । पूर्ववदिति । अशेर्देवने स्तुतौ युडित्यर्थः । सुयशा इति। असुनोऽपवादोऽसिः । ननि हन एह च । नब्युपपदे हन हिंसागत्योरित्यस्मादसि. प्रत्ययो धातोरेहादेशश्चेत्यर्थः । विधाञो वेध च । विपूर्वाद् डु धाञ् धारणे पोषणयोः इत्यस्माद् असिः स्याद् वेधादेशश्चेत्यर्थः । अयमादेशः सोपसर्गधातोः । वेधा इति । 'विष्णौ च वेधास्त्री त्वाशीः' इत्यमरः । नुवो दुट् च । णु स्तुती अस्मादसिः स्यात् , तस्य धुडागमश्च । नोधा इति । धातोर्गुणः । गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च । गतौ कारके चोपपदे धातोरसिः स्यात् । सुतपा इति । सावुपपदे तप सन्तापे इत्यस्मादसिः । जातवेदा इति । जातशब्दे कर्मकारके उपपदे विद ज्ञाने इत्यस्मादसिः । पूर्वपदप्रकृतिस्वरविधिनस्य कृत्यमाह गतिकारकोपपदादिति । चन्द्रे मोडित् । चन्दशब्दे उपपदे माङ् माने इत्यस्मादसिः स्यात्स च डिदित्यर्थः । डित्त्वफलं तु चन्द्रमसावित्यादौ टिलोपः । वयसि धात्रः। वयश्शब्दे उपपदेऽपि डु धाञ् धारणपोषणयोरित्यस्मादसिप्रत्ययः । वयोधा इति । रुत्वोत्वादि । पयसि च । सुयशाः सुस्रोता इत्याद्युदाहायम् । नभि । हन्तेर्नभ्युपपदेऽसिः स्याद् धातोरेहादेशश्च 'ऋदुशनस्पुरुदंस-' इत्यादिना सावन । विधानः । डुधाञ् धारणादौ विपूर्वादस्मा. दसिः स्याद्वेधादेशश्च सोपसर्गंधातोः । 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि' इति मेदिनी। नुवः। णु स्तुती अस्मादसिः स्यात्तस्य धुडागमश्च । नोघा इति । 'सद्यो भुवतीर्याय नोधाः' इति मन्त्रे नोधा ऋषिर्भवतीति निरुक्तम् । नवं' दधातीति तु नैरुक्कं व्युत्पत्त्यन्तरं बोध्यम् । गति । गतौ कारके चोपपदेऽसिः स्यात् । तप संतापे, विद ज्ञाने, विद्लु लाभे । चन्द्रे । चन्द्रं रजतममृतं च, तदिव मीयतेऽसौ चन्द्रमा इति हरदत्तः । स च डिदिति डित्त्वाहिलोपे चन्द्रमसौ चन्द्रमस इत्यादि सिध्यति । वयसि । डुधाञ् धारणे अस्माद्वयस्युपपदेऽसिः स्यात्स च डित् । पयोधा इति ।
१--'नवनम्' इति निरुतेऽवलोक्यते ।