________________
२६२ ] सिद्धान्तकौमुदी। [ उणादि. पक्षो' । वक्षो हृदयम् । ६६० वहिहाधाभ्यश्छन्दसि । वक्षा अनड्वान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राश्चः । वस्तुतस्तु णिदित्यनुवर्तते, न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयोः 'पातो युक्-' (सू २७६१) इति युक् । 'शोणा एडणू नृवाहसा' । श्रोता हवं गृणत स्तोमवाहाः' । 'विश्वो विहायाः' । 'वाजम्भरो विहायाः' । 'देवो नयः पृथिवीं विश्वधायाः' । 'अधारयत्पृथिवीं विश्वधायसम्'। 'धर्णसं भूरिधायसम्' इत्यादि । ६६१ इण आसिः । अयाः वह्निः । खरादिपाठादव्ययस्वम् । ६६२ मिथुनेऽसिः पूर्ववच्च सर्वम् । उपसर्गविशिष्टो धातुमिथुनं तत्रासुनोऽपवादोऽसिः स्वरार्थः । यस्य धातोयंस्कार्यम् देश्च छः । चदि । श्राह्लादने अस्मादसुन् प्रत्ययश्छकारादेशश्च। पचिवचिभ्यां सुद् च । डु पर्चष् पाके, वच परिभाषणे, प्राभ्यामसुनस्यात्तस्य सुडागमश्च । पक्ष इति । चस्य कुत्वे सस्य षत्वम् । वहिहाधाभ्यश्छन्दसि । वह प्रापणे, ओ हार त्यागे, डु धाञ् धारणादौ, एभ्यः असुन्स्यात् । वता इति । अत्वसन्तस्येति दीर्घः । सुडागमे हस्य ढत्वे षढोरिति कत्वे षत्वमिति भावः । इति प्राञ्च इति । प्राञ्च इत्यस्वरसद्योतनाय । तथा हि उक्लोदाहरणानि हि लोके न दृश्यन्ते, छन्दस्येव एतत्सूत्रप्रवर्तनात् , वेदे तु मदुक्तरीत्यैव दृश्यते इत्य ह वस्तुतस्विति । णिदित्यनुवर्तत इति । वसेर्णिदित्यतः। उपधावृद्धिरिति । असुनो णित्त्वादिति भावः। युकि रूपमाह विश्वो विहाया इति । इण आसिः। इण गतावस्मादासिः स्यात् । अया इति । गुणे अयादेश इति भावः । मिथुनेऽसिः । मिथुनशब्दार्थ. माह उपसर्गविशिष्टो धातुमिथुनमिति । तथा व सोपसर्गादसुधातोः रान्तोऽप्ययम् । 'अभिप्रायवशौ छन्दौ' इत्यमरद्विरूपकोशौ । पचे। डुपचष् पाके, वच परिभाषणे, आभ्यामसुन् स्यात्तस्य सुडागमश्च । चस्य कुत्ते सस्य षत्वम् । पक्षः पक्षसी पक्षांसि । 'यथा शालायै पक्षसी' इति श्रुतिः। 'पूर्वोगरे द्वे पक्षसी' इति च श्रुतिः । 'पूर्वोत्तरे द्वे पक्षसी' इति अनीकाधिकरणे शाबरभा यम्। माधवस्तु पक्ष परिग्रह इत्यस्मादसुन इत्याह वहि । वह प्रापणे, ओहाक् त्यागे, डुधाञ् धारणादौ, एभ्योऽसुन् स्यात् । अत्र पूर्वसूत्रात्सुटमनुवर्तयतामुज्ज्वलदत्तादीनां मतेनोदाहरण. माह वक्षाः हासाः धासाः इति । प्राश्च इति । सकलवृत्तिकृत : प्रसादकारादयश्चे. त्यर्थः । एतच्चायुक्तम् । उसोदाहरणानि हि न ताल्लोके दृश्यन्ते न वा संभवन्ति । सूत्रेऽस्मिन् छन्दसीत्युक्त्वात् । वेदे तु विपरीतान्येवोदाहरणानि दृश्यन्त इत्याह वस्तुतस्त्विति । वेदभाष्यकारादयश्चेहानुकूला इत्यवधेयम् । इणः। इण गती अस्मादासिः स्यात् । मिथुने । सुयशा इति 'अशेर्देवने युट च' इत्यादि पूर्ववत् ।