________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८ वृशीभ्यां रूपस्वाङ्गयोः पुट् च । वर्षो रूपम् । शेपो गुह्यम् । ६४१ सरीभ्यां तुद् च । स्रोतः । रेतः। ६४२ पातेर्बले जुत् च । पाजः पाजसी। ६४३ उदके थुट च । पाथः । ६४४ अन्ने च । पाथो भक्कम् । ६४५ प्रदेनुन्धौ च । प्रदेर्भ वाच्येऽसुन्नुमागमो धादेशश्च । अन्धोऽनम् । ६४६ पूजा नशामनयोः, अस्मादन्ने वाच्ये असुनस्यात् , तस्य नुड् धातोहखत्वं च । चन इति । लोपो व्योरिति यलोपः । वृशीभ्यां रूपस्वाङ्गयोः। वृज संभक्ती, शी स्वप्ने, श्राभ्यां क्रमेण रूपे स्वाङ्गे च वाच्येऽसुनस्यात् , तस्य पुडागमश्च । शेप इति । असुनि पुकि गुणः । खुरीभ्यां तुट् च । न गती, रीङ श्लेषणे, श्राभ्यामसुन् , तस्य तुडागमश्चेत्यर्थः । पातेर्बले जुट् च । पा रक्षणे अस्मादले वाच्येऽसुन् स्यात् तस्य जुडागमश्च बले वाच्ये। उदके थुद् च । पातेरुदके वाच्येऽसुन् स्यात् तस्य थुडागमश्चेत्यर्थः । अन्ने च । अने वाच्येऽपि पातेरसुन् थुडागमश्चे. त्यर्थः । अदेर्नुम्धौ च । अद भक्षणे अस्मादसुन् स्यात् । अन्ध इति । 'भिस्सा चिकिच्चेति पठित्वा नुटं चानुवर्त्य कित्त्वाद् गुणाभावे नुटश्चुत्वेन प्रकारे रिचमिति साधितं तल्लोकवेदयोरप्रसिद्धत्वादुपेक्ष्यम् । 'नित्यं रेक्णो अमर्त्यः' 'परिषयं धरणस्य रेक्णः' 'रेक्णः स्वत्यभि या वाममेति' इत्यादिमन्त्रेषु रेक्ण इति शब्दस्य प्रसिद्धत्वात् । वैदिकनिघण्टौ च सुवर्णपर्यायेषु तथा पाठात् । वेदभाष्ये तु प्रकृतसूत्रेणैव तस्य साधितत्वाच रेक्ण इति प्रयोग एव साधीयानिति दिक् । चयतेः । चाय पूजानिशामनयोः । अस्मादने वाच्येऽसुनस्यात्तस्य नुट् च धातोह खत्वं च यलोपः। 'चनो दधिष्व पचतः' 'सुते दधिष्व नश्चनः' इत्यादिमन्त्रेषु प्रसिद्धोऽयं चनशब्दः । एतेन चणोऽनमित्युदाहृत्य बाहुलकारणत्वमिति वदन्तो दशपादीवृत्ति. कारास्तदनुसारिणः प्रसादकारादयश्च परास्ताः। वृक। वृङ् सभक्तो, शीङ् स्वप्ने,
आभ्यो यथाक्रमं रूपे स्वाङ्गे च वाच्येऽसुनस्यात्तस्य पुडागमश्च । वर्पो रूपमिति। 'नन् छिश्नदेवाअभिवर्षसाभूत्' इत्यादिमन्त्रेषु प्रसिद्धमिदम् । 'शेपः स्याद् वृषणं पेलम्' इति सुभूतिचन्द्रः । अकारान्तोऽप्यम् । 'शेपपुच्छलांगूलेषु शुनः' इति वार्तिके शेप इति निर्देशाद् 'यस्यामुशन्तः प्रहराम शेपम्' इति वैदिकप्रयोगाच्च । 'शेपः शेपौ च शेवश्व शेवं प्रोक्तं च शेफसे' इति द्विरूपकोशः । स्ररीभ्याम् । स गती, रीङ श्रवणे, श्राभ्यामसुन् स्यात् तस्य तुट च । 'स्रोतोऽम्बुवेगेन्द्रिययोः' इति विश्वः। 'रेतः शुके पारदे च' इति मेदिनी। पातेः। पा रक्षणेऽस्माद्बलेवाच्येऽसुन् जुडागमश्च चवर्गतृतीयादिः । युट् चैत्यन्तस्थादिपाठस्तूज्ज्वलदत्तस्य प्रामादिकः । 'पृथुपाजा अमर्त्यः' इत्यादिमन्त्रतद्भाष्यविरोधात् । उदके। पातेरुदके वाच्येऽसुनस्यात्तस्य थुडागमश्च । 'कबन्धमुदकं पाथः' इत्यमरः। अदेः। अद भक्षणे। 'मिस्सा स्त्री भक्क