________________
२८८]
सिद्धान्तकौमुदी [ उणादिओजः । ६३२ श्वेः संप्रसारणं च । शवः शवसी । बलपर्यायोऽयम् । ६३३ श्रयतेः स्वाङ्गे शिरः किच्च । श्रयतेः शिर प्रोदशोऽसुन् किश्च । शिरः शिरसी । ६३४ अर्तेरुच्च। उरः । ६३५ व्याधौ शुट् च। अर्शो गुदव्याधिः। ६३६ उदके नुट च । अर्तेरसुन्स्यात्तस्य च नुट् । अर्णः अर्णसी। ६३७ इण आगसि । एनः। ६३८ रिचेर्धने घिच्च । चात्प्रत्ययस्य नुट् । घिस्वास्कु. स्वम् । रेक्णः सुवर्णम् । ६३६ चायतेरन्ने ह्रस्वश्च । चनो भक्कम् । ६४० स्यात् , बकारस्य लोपश्चेत्यर्थः । श्वेः संप्रसारणं च । टु ओ श्वि गतिवृद्धयोः अस्मादसुन् , धातोः संप्रसारणं चेत्यर्थः । शव इति रूपम् । श्रयतेः स्वाङ्गे। श्रिञ् सेवायामस्मात्खाङ्गेऽभिधेयेऽसुन् , धातोः शिरादेशः प्रत्ययश्च किदित्यर्थः । अर्तेरुच्च । ऋ गतौ अस्मादसुन् कित्स्याद् धातोरुत्त्वं च । उर इति । रपरत्वम् । व्याधौ शुट च । अर्तेाधावभिधेयेऽसुनस्यात् डागमश्चेत्यर्थः । अर्श इति । 'अर्शी रोगयुतोऽर्शसः' इत्यमरः। उदके नुट् च । अर्तेरित्येव । अर्तेरुदके वाच्येऽसुन् स्यात् , तस्य नुडागमश्च । अर्ण इति । रषाभ्यामिति णत्वम् । इण आगसि । इण् गतौ अस्मादसुन् स्यात् पापे वाच्ये तस्य नुडागमेश्चत्यर्थः । रिचंधने घिच्च । रिचिर विरेचने अस्माद्धने वाच्ये असुन् , स च कित् , तस्य नुडागमश्च । रेक्ण इति । चजोरिति कुत्वम् , अटकुप्वाङिति णत्वम् । चायतेरन्ने ह्रस्वश्च । चाय यशः कीर्तिः। उब्जेः । उब्ज आर्जवे अस्मादसुन् स्याबले वाच्ये बकारस्य लोपश्च । 'ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि' इति मेदिनी। श्वेः । टुओश्वि गतिवृद्ध्योः अस्मादसुनस्यात्संप्रसारणं च । श्रयते:- श्रिञ् सेवायामस्मात्स्वाने वाच्येऽसुनस्यात्स च किद्धातोः शिरादेशश्च । 'उत्तमा शिरः शीर्षम्' इत्यमरः । घार्थे कप्रत्यये तु शिर इत्यदन्तोऽपि । 'शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा' इति कोशान्तरम् । 'पिण्डं दद्याद्याशिरे' इति वायुपुराणे । 'कुण्डलोधृष्टगण्डानां कुमाराणां तरखिनाम् । निचकर्त शिरान्द्रौणिर्नालेभ्य इव पङ्कजान्' इति महाभारतम् । अतः । ऋ गतावस्मादसुन् कित्स्याद्धातोरुत्वं च । रपरत्वम् । 'उरो वत्सं च वक्षश्व' इत्यमरः। व्याधौ । अतेरेव व्याधौ वाच्येऽसुन् , तस्य शुडागमश्च स्यात् । अर्ण इति । पानीयमित्यर्थः । इणः । इण गतौ अस्मात्पापे वाच्येऽसुन् स्यात्तस्य नुडागमश्च । एनः पापम् । रिचः । रिचिर विरेचने, रिच वियोजनसंपर्चनयोरित्यस्माद्वा धने वाच्येऽसुन् । रेक्ण इति । 'चजोः' इति कुत्वे 'अट्कुप्ताङ्-' इति णत्वम् । इह दशपादीवृत्तौ नुटं नानुवर्य रेकः रेकसी इत्युदाहृतम् । तन्न । उत्तरसूत्रे नुडनुवृत्तेनिर्विवादत्वाद् । मण्डूकप्लुतो मानाभावाल्लक्ष्यविसंवादाच्च । उज्ज्वलदत्तेन तु रिचेर्धने