________________
प्रकरणम् ६७ ] बालमनोरमा-तत्वबोधिनीसहिता ।
[ २८७
भ्योऽसुन् । चेतः । सरः । पयः । सदः । ६२६ स्पेरत एश्च । रेपोऽवद्यम् । ६३० अशेर्देवने युद्ध च । देवने स्तुतौ । यशः । ६३१° उब्जेर्बले बलोपश्च । योगविभागान्नायं नित्यः । तेन कुष्मलमिति पूर्वोक्तमपि । सर्वधातुभ्योऽसुन् । चेत इति । चिती संज्ञाने श्रस्मादसुनि रूपम् । सृ गतौ, पीड् पाने, षद्ऌ विशरणादौ । रपेरत एच्च । रप व्यक्तायां वाचि श्रस्मादसुन्स्यात्, अकारस्य एकारश्चेत्यर्थः । शेर्देवने युट् च । श्रशु व्याप्तौ श्रस्मादसुन स्याद्धातोर्युडागमश्च । देवनं स्तुतिः । उब्जेर्बले बलोपश्च । उब्ज श्रार्जवे, अस्माद्बलेऽभिधेयेऽसुन्
9
1
दशापाद्य तु सुन्नित्येव सूत्रम् | चिती संज्ञाने चित संचेतने चुरादिः, सृ गतौ 1 गौरादित्वान्ङीष् । 'सरसी तु महासरः' इति शब्दार्णवः । 'महान्ति सर्रासि सरस्यः' इति भाष्यम् । पय गतौ पीड् गाने | 'पयः स्यात् क्षीरनीरयोः' इति मेदिनी । षद्ल विशरणादौ । सदः सभा | वर्च दीप्तौ । 'वर्चो नपुंसकं रूपे विष्टायामपि तेजसि । पुंसि चन्द्रस्य तनये' इति मेदिनी । रुदिर् अश्रुविमोचने । 'रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सहप्रयोगेऽप्यनयो रोदस्यावपि रोदसी' इति विश्वः । वी गत्यादिषु । 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम्' इति मेदिनी । अन प्राणने ।
नो भक्तम् । 'अनोश्मायः सरसां जातिसंज्ञयो:' इति टचि तु अनसम् । 'पाकस्थानं महानसम्' इत्यमरः । तमु ग्लानौ । 'तमः क्लीबं गुणे शोके सैंहिकेयान्धकारयोः' इति रभसः । 'तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुंतुदे' इति मेदिनी । षह मर्षणे, 'सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः' इति मेदिनी । तप संतापे । 'तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयो:' इति च । मह पूजायाम् । 'मह उत्सवतेजसोः' इति मेदिनी । नभ हिंसायां भौवादिकः कैयादिकश्च । 'नभोऽन्तरिक्षं गगनम्' इत्यमरः । 'नभं तु नभसा सार्धं तपं तु तपसा सह । सहं च सहसा सार्धं महं च महसा सह । तमेन च तमः प्रोक्तं रजेनापि रजः समम्' इति द्विरूपकोशः । नन्वसुच्प्रत्यये नभः सहस्तम इत्यादिसान्तशब्दाः सिध्यन्ति, पचाद्यचि तु न स तमं इत्याद्यजन्ता अपि सिध्यन्ति, परन्तु रज इति अकारान्त सकारान्तौ नलोपवच्छब्दौ न सिध्यत इति ' रजेनापि रजः समम्' इति कोशश्चिन्त्य एवेति वेदत्राहु: - रञ्ज रागे इत्यस्मादसुनि 'भूरञ्जिभ्यां कित्' इति वक्ष्यमाणेनासुनः कित्त्वा - नलोपे रजइति सिध्यति । 'घञर्थे कविधानम्' इति कप्रत्यये तु रजः इत्यदन्तोऽपि सिध्यतीति । रपेः । रप व्यक्तायां वाचि, अस्मादसुन् स्यादत एकारश्च । रेपोऽवद्यमिति । 'अरेपसा तन्वा' इति मन्त्रे निरवद्ययेति भाष्ये उक्तम्, नपूर्वक रेपःशब्दस्यानवद्ययाचकत्वात् । अशेः । श्रशू व्याप्तौ संघाते च श्रस्मादसुन्स्याद्धातोर्युडागमश्च ।