________________
२८६ ]
सिद्धान्तकौमुदी। [उणादि'तितुत्रेष्वग्रहादीनाम्' (वा ४३१३) इतीट् । ६२३ घणातेह्रस्वश्च । दृतिः । ६२४ कृतृपिभ्यः कीटन् । किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः । ६२५ रुचिवचिकुचिभ्यः कितच् । रुचितमिष्टम् । उचितम् । कुचितं परिमितम् । कुटितं कुटिलम् । ६२६ कुडिकुषिभ्यां क्मलन् । कुड्मलम् । कुष्मलम् । ६२७ कुषेर्लश्च । कुल्मलं पापम् । ६२८ सर्वधातुपदिप्रथिभ्यां नित् । पद गतौ, प्रथ प्रख्याने, श्राभ्यां तिप्रत्ययो नित्स्यादित्यर्थः । पत्तिरिति । ‘पदातिपत्तिपदगपादातिकपदातयः' इत्यमरः। प्रथितिरिति । ख्यातिरित्यर्थः । ननु प्रथितिरित्यत्र कथमिट , वलादीटस्तितुति निषेधादित्यत आह अग्रहादीति । अस्य प्रथधातोर्ग्रहादित्वादिति भावः । दृणातेह्रस्वश्च । दृ विदारणे अस्मात्तिः स्यात् , धातोर्हस्वत्वं च । दृतिरिति । 'दृतिसीमन्तहरित' इत्यमरः । कृतृकृपिभ्यः कीटन् । कृ विक्षेपे, तु प्लवनतरणयोः, कृपू सामर्थे, एभ्यः कीटन् स्यात् । किरीटमिति । कित्त्वान्न धातोर्गुणः, किंतु 'ऋत इद्धातोः' इति इत्त्वम् । 'किरीटस्तित्वमार्जनौ' इत्यमरः । रुचिवचिकुचिभ्यः। रुच दीप्तावभिप्रीतौ च, वच परिभाषणे, कुच शब्दे, एभ्यः कितच् स्यात् । रुचितमिति। कित्त्वान्न गुणः । उचितमिति। कित्त्वात्संप्रसारणम् । बाहुलकादाह कुटितमिति। क्वचित्तु सूत्र एव पाठः । कुडिकुषिभ्यां क्मलन् । कुडि दाहे, कुष निष्कर्षे, आभ्यां क्मलन्नित्यर्थः । कुषेलैश्च । पूर्वोक्ताद्धातोर्लकारश्चान्तादेश इत्यर्थः । कुल्मलमिति। सकनिष्ठे स्याद्वितस्तिदिशाङ्गुलः' इत्यमरः 'स्त्रीपुंसयोर्वितस्तिः स्यात्' इत्यमरमाला । पदि। पद गती, प्रथ प्रख्याने, आभ्यां तिः स्यात्स च नित् । पत्तिरिति । पदातिः। प्रथितिरिति । प्रख्यातिः। तितुत्रेष्विति । गहादित्वादिडागमनिषेधो नेति भावः । दृणातेः । दृ विदारणे । अस्मात्तिः स्याद्धातोर्हखत्वं च । 'दृतिश्चर्मपुटे मत्स्ये ना' इति मेदिनी। कृतृ । कृ विक्षेपे, तृ प्लवनतरणयोः, कृपू सामर्थे । 'किरीटं मुकुटे न स्त्री' इति चन्द्रगोमी। 'कृपीटमुदरे नीरे' इति विश्वः। दशपाद्यां तु कृत कृपिकपिभ्य इति पठित्वा कम्पीट इति चतुर्थमुदाहृतम् , 'कृपो रो लः' इत्यत्र न्यास तु कृकृषिभ्यामिति पठ्यते । अतस्तरतिरत्र प्रक्षिप्त इति कश्चित् । 'तरतेश्चेति पृथक्पठित्वा तिरीटः कूलवृक्ष' इति कश्चिद्याख्यत् । रुचिवचि । रुच दीप्तावभिप्रीतौ च, वच परिभाषणे, कुच शब्दे तारे, अथवा कुञ्च कौटिल्याल्पीभावयोः। इकः कित्त्वात्सूत्रे नलोपेन निर्देशः । कुट कौटिल्ये । उचितमिति । 'वचिस्वपि-' इत्यादिना संप्रसारणम् । कुटिकुषि । 'कुड्मलो मुकुले पुंसि न द्वयोर्नर कान्तरे' इति मेदिनी । कुष निष्कर्षे । कुष्मलं छर्दनम् । विकसितमित्यन्ये । सर्वधातुभ्योऽसुन्।