________________
प्रकरणम् ६० ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २८५
भुजिष्योः दानः । ६१६ वस्तिः । ' वस्तिर्नाभेरधो द्वयोः ' | 'वस्तयः स्युर्दशासूत्रे' । बाहुलकात् शासः शास्तिः राजदण्डः । विन्ध्याख्य मगमस्यतीत्यगस्तिः । शकन्ध्वादिः । ६२० सावसेः । स्वस्ति । स्वरादिपाठादव्ययत्वम् । ६२१ वौ तसेः । वितस्तिः । ६२२ पदिप्रथिभ्यां नित् । पत्तिः । प्रथितिः ।
अस्माड्डुम्सुन्ः त्ययः । पुमानिति । डुम्मुनो डित्त्वाट्टिलोपः । उकार उच्चारणार्थ इति केचित् । तेषामपीत्संज्ञामन्तरा लोगसंभवाद् उगित्कार्यसिद्धिः, उच्चारणार्थानामपि वर्णाना मित्संज्ञालोपाभ्यामेव निवृत्त्यङ्गीकारात् । एतच्च दिवत्सूत्रे शेखरे स्पष्टम् । तत्फलं तु सुपुंसीत्यादौ उगितश्चेति ङीप् । भाष्ये तु सूतेः सप् प्रसवे पुमानिति व्युत्पादितम् । तत्रेत्थं व्युत्पत्तिः । पूङ् प्राणिगर्भविमोचने अस्मान्मसुन्प्रत्ययः, धातुसकारस्य 'कारः, ऊकारस्य ह्रस्वश्चेत्यर्थः । एतच्च शेखरे हलन्तपुँल्लिने 'पुंसोऽ: सुढ' इति सूत्रव्याख्यावसरे स्पष्टम् । रुचिभुजिभ्यां किष्यन् । रुच दीप्तौ, भुज पालनादौ, आन्यां किष्यन्नित्यर्थः । रुचिष्यमिति । कित्त्वान्न लघूपधगुणः । वस्तिः । वस निवासे अस्मात् तिप्रयय इत्यर्थः । वस्तिरिति । शास्तिरित्यर्थमाह बाहुलकादिति । शासु अनुशिष्टावित्यस्मात् तिप्रत्ययः । श्रगमिति । पर्वतमित्यर्थः । ननु कथं तर्हि सवर्णदीर्घाभाव इत्यत श्राह शकन्ध्वादिरिति । शकन्ध्वादिपररूपस्य सवर्णदीर्घबाधकत्वादिति भावः । सावसेः । सावुपपदे भूवत्यस्मात् निप्रत्यय इत्यर्थः । ' स्वस्त्याशीः क्षेमपुण्यादौ' इत्यमरः । ननु कथं तर्हि सुपोऽश्रवणमित्यत्राह स्वरादिपाठादिति । वौ तसेः । वावुपपदे तसु उपक्षये अस्मात्तिः स्यात् । ' अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः' इत्यमरः ।
'सूक्ष्मं स्यात्कटकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी । पातेः । पा रक्षणेऽस्माद् लुम्सुम्स्याद्, डित्वाट्टिलोप उकार उच्चारणार्थ इत्युज्ज्वलदत्तः । वस्तुतस्तूगित्कार्यार्थः । सुपुंसीति 'उगितश्च' इति ङीप् । नकारः स्वरार्थः । ' पुंसोऽसुङ इति सूत्रे न्यासरक्षिताभ्यां पुनातर्मक्सुन् हखश्चेति पठितम् । पूञो डुम्सुन्नित्यन्ये । भाष्ये तु सूतेः सप्रसत्रे पुमानित्युक्तम् । 'उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः ' इति तत्त्वम् । रुचि । रुच दिप्तावभिप्रीतौ च भुज पालनादौ । ' भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्रकद सयोः । स्त्रियां दासीगणिकयो:' इति मेदिनी । वसेः । वस निवासे, वस श्राच्छादने । 'बस्तिर्द्वयोर्निरूहे नाभ्यधोभूमिदशासु च' इति मेदिनी । शास इति । शासु 'प्रनुशिष्टौ । अस्यतीति । असु क्षेपणे । 'अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान्' इति मेदिनी । सावसेः । अस् भुवि श्रस्मात्सावुपपदे तिः स्यात् । बहुलध्चनान्न भुभावः । वौ । तसु उपक्षयेऽस्माद्विपूर्वात्तिः स्यात् । ‘अङ्गुष्ठे
1