________________
२८४]
सिद्धान्तकौमुदी। [उणादिमशिनम् । वहिनम् । धरित्री मही। ढङ् एवमादिभ्य उत्रः। त्रोत्रं प्रहरणम् । वृष वरुनं प्रावरणम् । ६१३ अमेर्द्विषति चित् । अमित्रः शत्रुः । ६१४ श्राः समिणनिकषिभ्याम् । संपूर्वादियो निपूर्वास्कषेश्च पा स्यात् । स्वरादिस्वादन्ययस्वम् । समया । निकषा । ६१५ चितः कणः कश्च । बाहुलकादगुणः । 'चिकणं ममृणं स्निग्धम् । ६१६ सुचेः स्मन् । सूक्ष्मम् । ६१७ पातेईम्सुन् । पुमान् । ६१८ रुचिभुजिभ्यां किष्यन् । रुचिष्यमिष्टम्। चर गतावस्मारिणत्रन् स्याद् वृत्ते गम्ये । चारित्रमिति । णित्त्वादुपधावृद्धिः । अशित्रादिभ्य इत्रोत्रौ । अशिश्च त्रश्च अशित्रौ, तौ आदी येषामिति विग्रहः । द्वन्द्वान्ते श्रूयमाणस्यादिशब्दस्य प्रत्येकं योगः। अश्वादि त्रादि एभ्यः क्रमाद् इत्र उत्र इत्येतो प्रत्ययौ स्तः । अशित्रमिति । अशु व्याप्ती अस्मादित्रः । वहित्रमिति । वह प्रापणे । धरित्रीति । धृञ् धारणे गौरादित्वान्ङीष् । त्रोत्रमिति । त्रै पालने, आत्वे आद्गुणः । अमेर्द्विषति चित् । अम गत्यादौ, अस्माद् इत्रः स्यात् , स च चित् शत्रौ वाच्ये । 'द्विविपक्षाहितामित्रदस्युशात्रवशत्रवः' इत्यमरः । श्रा समिण । संपूर्वक इण् गतौ, निपूर्वककषः हिंसार्थकः, श्राभ्यामा स्यात् । समयेति । गुणेऽयादेशे रूपम् । 'समयान्तिकमध्ययोः' इत्यमरः । चितेः कणः कच । चिती संज्ञाने, अस्मात् कणप्रत्ययः, धातोरन्त्यस्य च ककारादेश इत्यर्थः । अमरकोशमाह चिक्कणमिति । सूचेः स्मन् । सूच पैशुन्ये चुरादिण्यन्तः, अस्मात्स्मनि णिलोपे कुत्वे षत्वे च सूक्ष्ममिति रूपम् । पातेडुम्सुन् । पा रक्षणे त्रैलोक्यम् । वद व्यक्तायां वाचि ण्यन्तः । वादित्रं तूर्यादि। ग निगरणे । चरेः। वर गतौ, अस्मारिणत्रन्स्याद् वृत्ते वाच्थे । 'वृत्तं पद्ये चरित्रे च' इत्यमरः। ननु इत्रन्प्रत्यये चरित्रमित्युक्तं ततश्च प्रज्ञायणि चारित्रमिति सिद्धौ किमनेनेति चेत् । मेवम् । खरे विशेषात् । अशि । अशू व्याप्तावेवमादिभ्य इत्रः, त्रैङ् पालने एवमादिभ्य उत्रश्च स्यात् । वहिरमिति । वह प्रापणे । धरित्रीति । धृञ् धारणे गौरादित्वाद् ङीष् । अमेः । श्रम गतौ अस्मादित्रः स्यात्स च चित् । उत्रस्तु नानुवर्तते अस्खरितत्वात् । मित्रं नेति विग्रहे त्वमित्रमिति नपुंसकम् । आः समिण । इण् गतौ, अस्मादाप्रत्यये गुणे सत्ययादेशः। कषेरिति । कषखषेति दण्डकः । समयानिकषाशब्दौ समीपवाचकौ, बाहुलकाद् । दुषेः दोषा। दिवेराप्रत्यये बाहुल. कादेवास्य गुणाभावे दिवा। स्वदेराप्रत्यये बाहुलकादेव धातोर्धान्तादेशश्च, खधे. त्यादि । चितेः । चिती संज्ञानेऽस्मात्कणः प्रत्ययः स्यात्कश्चान्तादेशः। अमरोक्तमाह चिक्कणमिति । सूचः । सूच पैशुन्ये चुरादिरस्मात्स्मन् णिलोपः। कुत्वषत्वे ।