________________
प्रकरणम् ६७ |
बालमनोरमा-तत्त्वबोधिनीसहिता । | २८३
'गोत्रं स्यान्नामवंशयोः' । गोत्रा पृथिवी । धर्त्र गृहम् । वेत्रम् । पक्त्रम् । वक्त्रम् । यन्त्रम्। सस्त्रम् | क्षत्त्रम् । ६०७ हुयामाश्रुभसिभ्यस्त्रन् । होत्रम् | यात्रा | मात्रा। श्रोत्रम्। मस्त्रा। ६०८ गमेरा च । गात्रम् । ६०६ दादिभ्यश्छन्दसि । दात्रम् । पात्रम् । ६१० भूवादिगृभ्यो णित्रन् । भावित्रम् । वादित्रम् | गारित्रमोदनम् । ६११ चरेर्वृत्ते । चारित्रम् । ६१२ अशित्रादिभ्य इत्रोत्रौ ।
गतिप्रजननादौ, पचष् पाके, वच परिभाषणे, यम उपरमे, षद्लु विशरणादौ, क्षदिः सौत्रः, एभ्यस्त्रप्रत्यय इत्यर्थः । गोत्रमिति । त्रे गुणः । 'अद्विगोत्रगिरिग्रावा' 'सन्ततिर्गोत्रजनन' इति चामरः । सत्त्रमिति । 'सत्त्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इत्यमरः । हुयामा । हु दानादानयोः, या प्रापणे, मा माने, श्रु श्रवणे, भस भर्त्सनदीप्त्योः, एभ्यस्त्रन्प्रत्यय इत्यर्थः । ' भस्त्रा चर्मप्रसेविका' इत्यमरः । गमेरा च । गनृ गतौ, अस्मात्त्रन्स्यात्, धातोरन्त्यस्य मकारस्य श्राकारश्चेत्यर्थः । गात्रमि ते । दादिभ्यश्छन्दसि । दाप् लवने इत्यादिभ्यस्त्रन्स्यात् छन्दसि । दात्रभिति । 'दानं लवित्रमाबन्धः' इत्यमरः । पात्रमिति । 'योग्यभाजनयोः पात्रम्' इत्यमरः । भूवादिगृभ्यो । भू सत्तायाम्, वद व्यक्तायां वाचि रायन्तः, गृ निगरणे, एभ्यो णित्रन् स्यात् । भावित्रमिति । णित्त्वाद् वृद्धिः । वादित्रमिति । 'चतुर्विधमिदं वाद्यं वादित्रातोयनामकम्' इत्यमरः । चरेर्वृत्ते । इत्यमरः । गृधृ । गुङ् श्रव्यक्ते शब्दे, धृञ् धारणे, वी गतिप्रजनादौ, पाके डुपचष् वच परिभाषणे, यम उपरमे, बद्ल विशरणगत्यादौ, क्षद इति सौत्रः । 'गोत्रा भूगव्ययोर्गोत्रः शैन गोत्रं कुलाख्ययोः । संभावनीयबोधे च काननक्षेत्रवर्त्मसु ' इति मेदिनी । 'सत्रमा छादने यज्ञे सदादाने धनेऽपि च' इत्यमरः । ' सत्रं यज्ञसदादान - च्छादनारण्य कैतवे' इति मेदिनी । क्षत्त्रं ब्राह्मणानन्तरजातिः । हुयामा । हु दानादनयोः, या प्रापणे', मा माने, श्रु श्रवणे, भस भर्त्सनदीप्त्योः । होत्रमाहुतिः । होत्राशब्द ऋत्वित्वपि स्त्रीलिङ्ग इति 'होत्राभ्यश्छः' इति सूत्रे हरदत्तादयः । 'यात्रा तु यातनेऽपिस्या र मनोत्सवयोः स्त्रियाम्' इति मेदिनी । 'मात्रा कर्णविभूषायां वित्ते माने परिच्छदे | अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे' इति च । 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । ' भस्त्रा चर्मप्रसेविका' इति च । गमेः । गम्लु गतावस्मात् त्रन्स्याद्धातोराकारान्तादेशश्च । ' गात्रमङ्गे कलेवरे । स्तम्बेरमाग्रजवादिविभागेऽपि समीरितम्' इति विश्वः । दादिभ्यः । दाप् लवने एवमादिभ्यस्त्रन् । दात्रं धान्यादिच्छेदनसाधनम् । पा पाने, 'योग्यभाजनयोः पात्रम्' इत्यमरः । क्षि निवासगत्योः । क्षेत्रमित्यादि योज्यम् । भूवादि । भू सत्तायाम् । भावित्रं