________________
२८२] सिद्धान्तकौमुदी। [ उणादि. सिविमुच्योष्टेरू च । सूत्रम्। मूत्रम् । ६०३ अमिचिमिदिशसिभ्यः क्त्रः। प्रान्त्रम् । चित्रम् । मिस्त्रम् । शस्त्रम् । ६०४ पुवो ह्रस्वश्च । पुत्रः । ६०५ स्त्यायते । स्त्री । ६०६ गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः । मिति रूपम् । उषिखनिभ्यां कित् । उष दाहे, खनु अवदारणे, आभ्यां ष्ट्रन् कित्स्यात् । उष्ट्र इति । 'उष्ट्र कमेलकमयमहाशाः' इत्यमरः । खात्रमिति । 'जनसनखना सन्झलोः' इत्यात्त्वम् । सिविमुच्योष्टेरू च । षिवु तन्तुसन्ताने, मुच्लु मोक्षणे, प्राभ्यां ष्ट्रन् कित्स्यात् । सूत्रमिति । सिधातोः ष्ट्रनि छोरिति वस्य ऊठि, उपधाया ऊकार, सवर्णदीर्घ रूपम् । ष्ट्रन्निति ष्टुत्वसंपन्नस्य निर्देशः । षस्येत्त्वे त्रनिति शिष्यते । मूत्रमिति । टेरूत्त्वे रूपम् । अमिचिमिदि । श्रम गत्यादि. दिषु, चिञ् चयने, मि मिदा स्नेहने, शसु हिंसायाम् , एभ्यः क्त्रप्रत्यय इत्यर्थः । प्रान्त्रमिति । अनुनासिकस्य कीति दीर्घः। शेषं स्पष्टम् । पुवो हवश्व । पूञ् पवने, अस्मात्वत्रः स्यात् , धातोर्हस्वत्वं च । पुत्र इति । कित्त्वान्न गुणः । स्त्यायतेईट । स्त्यै ष्टयै शब्दसङ्घातयोः अस्माइट स्यात् । स्त्रीति । डित्त्वाट्टि. लोपः । 'लोपो व्योः' इति यलोपः । टित्त्वान्डीप् । 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । गुधृवीपचि । गुङ् अव्यक्ते शब्दे, धृञ् धारणे, वी दिवः । दिवु क्रीडादावस्मात् ष्ट्रन् स्याद् द्युदादेशो वृद्धिश्च धातोः। उषि । उष दाहे, खनु अवदारणे, आभ्यां ष्ट्रन् कित्स्यात् । उष्टः क्रमेलकः । 'उष्टे क्रमेलकमयमहाङ्गाः' इत्यमरः । सिवि । षिवु तन्तुसन्ताने, मुच्ल मोक्षणे, आभ्यां ष्ट्रन्कित्स्यात् टेरूकारादेशश्च । सूत्रिमूत्रिभ्यां चुरादिण्यन्ताभ्यामेरचा रूपसिद्धरायुदात्तार्थ. मिदं सूत्रम् । न च घा तत्सिद्धिः, ‘एरच्' इत्यस्य घओ बाधकत्वात् । 'सूत्रं तु सूचनापन्थे सूत्रतन्तुव्यवस्थयोः' इति विश्वः। अमि । श्रम गतिशब्दसंभक्तिषु, चिञ् चयने, जिमिदा स्नेहने, शसु हिंसायाम् । आन्त्रमिति । 'अनुनासिकस्य-' इति दीघः । श्रोणि लम्बिपुरुषान्त्रमेखलाम्' इति कालिदासः। आलेख्याश्चर्ययोश्चि. त्रम्, इत्यमरः । मित्रं सुहृदि न द्वयोः । सूर्ये पुंसि' इति मेदिनी । 'शस्त्रं लोहास्त्रयोः क्लीबं क्षुरिकायां तु योषिति' इति च । प्रत्ययस्वरेणैतेऽन्तोदात्ताः। 'शुन श्रान्त्राणि पेचे' । 'चित्रं देवानाम् । 'मित्रं नयम्' । 'शस्त्रस्य शस्त्रमसि' इत्यादि । पुवः । पूञ् पवनेऽस्मात्कः स्याद् धातोहखत्वं च । पुनाति खवंशानिति पुत्रः। पुंनामा नरकस्तस्मात् त्रायते इत्यर्थे 'आतोऽनुपसर्गे कः' इति कप्रत्यये पुत्र इति व्युत्पत्त्यन्त. रम् । स्त्यायतेः । स्यै ष्टयै शब्दसंघातयोः । स्त्रीति । डित्त्वाहिलोपः । 'लोपो व्योः-' इति यलोपः । टित्वान्टीप् । 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः'