________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८१ ५१७ कायतेडिमि । किम् । ५६८ सर्वधातुभ्यः ष्ट्रन् । वस्त्रम् । अस्त्रम् । शस्त्रम् । इस्मन्निति हस्वत्वम् । छादनाच्छत्रम् । ५६६ भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च । भ्राष्ट्रः । गान्त्रं शकटम् । नान्त्रं स्तोत्रम् । हान्त्रं मरणम् । वैष्ट्रं पिष्टपम् । श्राष्ट्रमाकाशम् । ६०० दिवेर्युच्च । द्यौत्रं ज्योतिः । ६०१ उषिखनिभ्यां कित् । उष्ट्रः । खात्रं खनित्रं जलाधारश्च । ६०२ निगरणे, अस्मादुडच् स्यात् । 'गरुत्मान्गरुडस्तार्यः' इत्यमरः । इन्देः कमि. नलोपश्च । इदि परमैश्वर्य, अस्मात्कमिः स्यान्नकारलोपश्चेत्यर्थः । इदमिति । सर्वनामशब्दोऽयम् । कायतेर्डिमिः । कै शब्दे, अस्माड्डिमिप्रत्यय इत्यर्थः । डित्त्वाहिलोपः । अयमपि सर्वादिरेव । सर्वधातुभ्यः ष्ट्रन् । सर्वेभ्योऽपि धातुभ्यः ष्ट्र-प्रत्यय इत्यर्थः । वस्त्रमिति । वस पाच्छादने । छादनादिति । छद अपवारणे ण्यन्तः । भ्रस्जिगमिनमि। भ्रस्ज पाके, गम्लु गतौ, णम प्रहत्वे शब्दे च, हन हिंसागत्योः, विश प्रवेश ने, अशू व्याप्ती, एभ्यः ष्ट्रन् स्यात् , एषां वृद्धिश्च भ्राष्ट्र इति । व्रश्चेति षत्वम् , वृद्धिः । 'क्लीबेऽम्बरीषं भ्राष्ट्रो ना इत्यमरः । दिवेर्युच्च । दिवु क्रीडादौ, अस्मात्ष्ट्रन् स्यात् , धातोर्युदादशो वृद्धिश्च । द्यौत्रगृ निगरणे । केचिनु सूत्रमिदं परित्यज्य गरुता डयत इति विगृह्य डीडो डप्रत्यये पृषोदरादित्वाद्रुतस्तकारलोपे गरुडशब्दं क्लेशेन व्युत्पादयन्ति । इन्देः । इदि पर. भैश्वर्ये । उज्ज्वलदत्तस्तु कमिनिति नितं पपाठ, तच्चिन्त्यम् । 'इदं त्यत्पात्रमिन्द्रपानम्' । 'इदं ते सोम्यं मधु' इत्यादौ नित्स्वराभावात् । दशपायां तु 'इणो दमक्' इति सूत्रितम् । इदमिति सर्वनामशब्दोऽयं संनिहितपरामर्शी। कायतेः। कै गै शब्दे। प्रयोजनाभावादेव मकारस्येत्संज्ञाविरहे सिद्धे डिमेरिकार उच्चारणार्थः । डकारस्तु टिलोपार्थः । दशपायां तु मान्तमेव डिमिति सूत्रितम् । किमिति सर्वनाम । सर्वधा. तुभ्यः । दशपायां तु अर्थात्सर्वधातुभ्यो भविष्यतीत्याशयेन ष्ट्रनित्येव सूत्रितम् । अतएवाधिकं प्रक्षिप्तमि याहुः । वस निवासे, असु क्षेपणे, शसु हिंसायाम् , छद अपवारणे ण्यन्तः । 'अस्त्रं प्रहरणे चापे करवाले नपुंसकम्' इति मेदिनी। पत्ल गतौ । 'पत्रं तु वाहने पर्णे स्यात् पक्षे शरपक्षियोः' इति मेदिनी। पा पाने । पात्रम् । षित्त्वान् ङीष् 'पाध्यमत्रे त्रिषु क्लीबं स्रवादौ राजमन्त्रिणि । तीरद्वयान्तरे योग्ये' इति मेदिनी । दंश दशने 'वश्च-' श्रादिना षत्वे ष्टुत्वे षितां ङीषोऽनित्यत्वाट्टाप् । दंष्ट्रा । भ्रस्जि । भ्रस्ज पाके, गम्लु गती, णम प्रहत्वे शब्दे च, हन हिंसागत्योः, विश प्रवेशने, अशू व्याप्ती, एभ्यः ष्ट्रन् स्यादेषां वृद्धिश्च । भ्राष्ट्र इति । संयोगादिलोपः। 'वश्च-' इति षत्वे ष्टुत्वम् । 'क्लीबेऽम्बरीषं भ्राष्ट्रो ना' इत्यमरः। वैष्ट्रं विष्टपम् ।