________________
२६०1
सिद्धान्तकौमुदी [ उणादिसीमानः । पचे डाप् सीमे सीमाः । ज्येनोऽन्त्यस्योत्वं गुणः । व्योम । रौतेः रोम । लोम । पाप्मा पापम् । धाम परिमाणं तेजश्च । ५६१ मिथुने मनिः। उपसर्गक्रियासंबन्धो मिथुनम् । न तु स्त्रीपुंसौ। स्वरार्थमिदम् । सुशर्मा । ५६२ सातिभ्यां मनिन्मनिणौ । स्यतीति साम । सामनी। मारमा । ५६३ हनिमशिभ्यां सिकन् । हंसिका हंसयोषिति । मक्षिका । ५६४ कोररन् । कवरः । ५६५ गिर उडच् । गरुडः । ५६६ इन्देः कमिनलोपश्च । इदम् । निनि धातोर्दी? निपात्यत इत्यर्थः । पक्षे डाविति । डाबुभाभ्यामन्यतरस्यामि. त्यनेन । व्यत्र इति । व्यञ् संवरणे, अस्मान्मनिनि एकारस्योत्वं निपातनात् । 'व्योम पुष्करमम्बरम्' इत्यमरः । रौतेरिति । रु शब्दे । लोमेति । लून् . छेदने । पाप्मेति । पा पाने अस्मान्मनिनि पुगागमो निपात्यते । मिथुने मनिः । मिथुनशब्दार्थ व्याचष्टे उपसर्गक्रियासंबन्ध इति । स एवेह विवक्षित इति भावः । एवं च सोपसर्गाद्धातोर्मनिप्रत्यय इत्यर्थः । ननु सर्वधातुभ्यो मनिन्निति मनिनैव सिद्धे किमर्थ मनिप्रत्ययविधिक्लेश इत्यत आह स्वरार्थमिति । नित्स्वरो मध्योदात्तः स्यादिति भावः । सातिभ्यां मनिन्मनिणौ । षो अन्तकर्मणि, श्रत सातत्यगमने, आभ्यां यथाक्रमं मनिन् मनिण एतौ स्त इत्यर्थः । सामेति । मनिनि 'आदेच:-' इत्यात्त्वम् । आत्मेति । मनिणो णित्त्वादुपधाद्धिः । हनिमशिभ्यां सिकन् । हन् हिंसागयोः, मश शब्दे, आभ्यां सिकनित्यथः। हंसिकेति । मक्षिकेति । शस्य व्रश्चेति षत्वे, षढोरिति कत्वम् , षत्वं च । कोररन् । कु शब्दे अस्मादरन्प्रत्यय इत्यर्थः । कवर इति । गुणः अवादेशः। गिर उडच । गृ संवरणे, रु शब्दे, रोम गात्रकेशः । लून् छेदने। लोमस एव । पा पाने पुगागमः । ध्ये चिन्तायाम् । बाहुलकादन्येभ्योऽपि । यक्ष पूजायाम् । 'क्षयः शोषश्च यक्ष्मा च' इत्यमरः । पू प्रेरणे, सोमा चन्द्रः । डुधाञ् धारणपोषणयोः। 'धाम देहे गृहे रश्मौ स्थान जन्मप्रभावयोः' इति मेदिनी। मिथुने । शृ हिंसायाम् , सुष्ठु शृणाति इति सुशर्मा राजविशेषः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तं पदम् । मनिनि तु मध्यो। दात्तं स्यात् । साति । षोऽन्तकर्मणि, अत सातत्यगमने, आभ्यां यथासंख्यमेतो सः। स्यति दुःखयति दुरध्येयत्वात्साम । 'साम क्लीबमुपायस्य भेदे वेदान्तरेऽपिच' इति मेदिनी । 'आत्मा पुंसि स्वभावे स्यात्प्रयत्नमनसोरपि । धृतावपि मनीषायां शरीर. ब्रह्मणोरपि' इति च । हनि । हन हिंसागत्योः, मश शन्दे रोष कृते च । 'मक्षिका रम्भराली स्यात्' इति हारावली । कोररन् । कु शन्दे । कवरः पाठकः । बवयो. रेक्यात्कबरी केशविन्यासः । 'जानपद-' इति ङीष् । अन्यत्र कबरा । गिर ।