________________
प्रकरणम् ६७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २७६
नकारस्याकारः । 'ब्रह्म तत्त्वं तपो वेदो ब्रह्म विप्रः प्रजापतिः । ५८६ अशिशकिभ्यां छन्दसि । श्रश्मा । शक्मा । ५८७ हृभृधृसृस्तृशृभ्य इमनिच् । हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरिमा प्रसवः । ५८८ जनिमृभ्यामिमनिन् । जनिमा जन्म । मरिमा मृत्युः । ५८६ वेञः सर्वत्र । छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः । श्रर्धर्चादिः । सामनी वेमनी इति वृत्तिः । ५६० नामन् सीमन्व्योमनोमन्लोमन् पाप्मन्धामन् । सप्त श्रमी निपात्यन्ते । म्नायतेऽनेनेति नाम । सिनोतेर्दीर्घः । सीमा सीमानौ
,
यणादेशः । श्रमरकोशमाह ब्रह्म तत्त्वं तपो वेद इति । अशिशकिभ्यां छन्दसि । अशू व्याप्तौ शवल शक्तौ, श्राभ्यां मनिन्स्यादित्यर्थः । अश्मेति । ‘पाषाण प्रस्तर प्रावोपलाश्मानः शिल दृषत्' इत्यमरः । हृधृभृसृ । हृञ् हरणे, डु भृञ् धारणपोषणयोः, धृ धारणे, सृ गतौ, स्तृञ् आच्छादने, शू हिंसायाम् एभ्य इमनिच्प्रत्यय इत्यर्थः । हरिमेति । इमनिचि इचावितौ धातोर्गुणः । जनिमृभ्यामिमनिन् । जन जनने, मृङ् प्राणत्यागे, आभ्यामिमनिन्यात्, नित्स्वरो विशेषः । वेञः सर्वत्र । वेञ् तन्तुसन्ताने श्रस्मादिमनिन्प्रत्ययः छन्दसि लोके च भवतीत्यर्थः । वेमेति । 'पुंसि वेमा वायदण्डः' इत्यमरः । नामन् सीमन्· व्योमन् । निपात्यन्त इति । मनिन्नन्ता इति शेषः । निपातप्रकार मेवाह नायत इति । ना अभ्यास इत्यस्मान्मनिनि धातोर्नाभावो निपात्यते । अथवा आदेर्मकारस्य लोपो निपात्यत इत्यर्थः । सिनोतेरिति । षिञ् बन्धने,
,
,
,
अस्मान्ममेदिनी । अशि । अर्ू व्याप्तौ संघाते च शक्लृ शक्तौ शक्मा इन्द्रः । छन्दसीत्यस्य शकिना संबन्धो न त्वशिना । अतएव ' अश्मानमारोपयतः स्मरारेः' इति प्रयोगः । हृभृ । 'हृञ् हरणे, डुभृञ् धारणपोषणयोः, धृ धारणे, सृ गतौ स्तृञ् आच्छादने, शृ हिंसायाम्। शरिमेति । एतच्चोज्ज्वलदत्तरीत्योक्कम् । दशपायां तु शृणातिर्न पठ्यते तत्स्थाने सृधातुं प्रक्षिप्य प्रत्ययं च दीर्घादिं नितं च कृत्वा, स्तृसृभ्यामीमन्निति पठ्यते, छन्दोग्रहणं चानुवर्तितम् । युक्तं चैतत् । 'पितृतां नो भरोमभिः ' । 'वातस्य सर्गे अभवत्सरीमणि' । स्तीर्णं बर्हिः सुष्टरीमा जुषाणा' । 'यस्यामतिर्भा श्रदिद्युत्सवीमनिरण्यपाणिः' इत्यादिमन्त्राणां तद्भाष्यस्य चानुगुणत्वात् । उक्तप्रयोगाणां भाषायामदर्शनेन च्छन्दोऽनुवृत्तेन्यय्यित्वाच्च । श्रतएव 'वेञः सर्वत्रे' ति सूत्रे सर्वत्रग्रहणं करिष्यति । जनि । जन जनने, मृङ् प्राणत्यागे । वेञः । वेञ् तन्तुसन्ताने । निपात्यन्त इति । मनिनन्ता इति शेषः । म्ना अभ्यासे । मलोपो नाभावो वा । नाम संज्ञा । षिञ् बन्धने । 'सीमसी मे स्त्रियामुळे' इत्यमरः । व्येञ्