________________
२७८] सिद्धान्तकौमुदी। [उणादिगिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाणः । शिरिः शलभो हन्ता च । पुरिनगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः । ५८३ कुडिकम्प्योनलोपश्च । कुडि द्राहे । कुडिदेहः । कपिः । ५८४ सर्वधातुभ्यो मनिन् । क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् । इस्ममिति हस्वः । छद्म । सुत्रामा। ५८५ बृंहेनोंऽश्च । पृ पालनपूरणयोः, कुट कौटिल्ये, मिदिर् विदारणे, छिदिर् द्वैधीकरणे, एभ्य इप्रत्ययः स्यात्, स च किदित्यर्थः । किरिरिति । ऋत इदिति इत्त्वम् , रपरत्वम् । 'वराहः सूकरो गृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः । गिरिरिति । 'अद्रिगोत्रगिरिपावा' इत्यमरः । पुरिरिति । उदोष्टयपूर्वस्य इत्युत्वम् । कुडिकम्प्योर्नलोपश्च । कुडि दाहे, कपि चलने, आभ्याम् : कित्स्यात् । धातोर्नलापश्चेत्यर्थः । प्रत्ययस्य कित्त्वेऽपीदित्त्वान्न नलोपप्राप्तिः, अतस्तद्विधानम् । कुडिरिति । कित्त्वान्न लघूपधगुणः । कपिरिति । 'कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः' इत्यमरः । सर्वधातुभ्यो मनिन् । सर्वेभ्योऽपि धातुभ्यो मनिनस्यात् । कर्मेति । डु कृञ् करणे, अस्मान्मनिनि गुणः । चमेति । चर गतौ । सुत्रामेति । त्रैङ् पालने, सुष्ठु त्रायत इति सुत्रामा । बृंहेोऽञ्च । बृंहे: नः अत् इति च्छेदः । बृहि वृद्धौ अस्मान्मनिन् नुमा निष्पन्नस्य नकारस्याकारश्च यर्थः । नकारस्याकारे ऋकारस्य कृगश । कृ विक्षेपे, गृ निगरणे, शृ हिंसायाम् , पृ पालनपूरणयोः, कुट कौटिल्ये, भिदिर विदारणे, छिदिर द्वैधीकरणे । 'वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः । 'इगुपधज्ञाप्रीकिर:-' इति कप्रत्यये किर इत्यकारान्तोऽपि । 'स्वचि स्वचः किरोऽपि स्यात् किरौ प्रोतः पयः पथि इति द्विरूपकोशः । गिरिर्ना नेत्ररु. रिभदि । अद्रौ गिरिजके योषिद्ीी पूज्ये पुनस्त्रिषु' इति मेदिनी। कुटिरिति । जीषि तु कुटी 'कुटीशमीशण्डाभ्यो रः' कुटीरः । 'कुटिः कीटे पुमानस्त्री घटे स्त्रीपुंसयोहे । कुटी स्यात्कुम्भदास्यां च सुरायां चित्रगुच्छके' इति मेदिनो। कुडि । कुडि दाहे, कपि चलने, आभ्यामिः कित्स्याद्धातोर्नलोपश्च । 'कपिर्ना सिंहके शाखामगे च मधुसूदने' इति च । सर्वधातुभ्यः । डुकृञ करणे, चर गती, चरतिर्भक्षणेऽपि, जन जनने, भस भर्त्सनदीप्त्योः , शृ हिंसायाम् , शर्म सुखे, छा गतिनिवृत्ती, छद अपवारणे चुरादिः, त्रैङ् पालने । सुष्टु त्रायते इति सुत्रामा इन्द्रः । 'कर्मव्याप्ये क्रियायां च पुनपुंसकयोर्मतम्' इति रुद्रः । 'चर्म वृत्तौ च फलके' इति मेदिनी । बृहेः । बृहि वृद्धावस्मान्मनिन्नुमो नकारस्याकारे ऋकारस्य यणादेशः । 'ब्रह्म तत्त्वं तपो वेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगभिदोविप्रे' इति