SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] पानमनोरमा-तत्त्वबोधिनीसहिता। [२७७ ५७८ अच इः। रवि । पविः । तरिः । कविः । परिः। अतिः । ५७६ खनिकष्यज्यसिवसिबनिसनिध्वनिग्रन्थिचलिभ्यश्च । खनिः । कषिहिंस्रः । अजिः । असिः वसिर्वस्वम् । वनिरग्निः । सनिर्भक्तिन र । ध्वनिः। प्रन्धिः । चलिः पशुः। ५० वृतेश्छन्दसि । वतिः । ५८१ भुजेः किञ्च । भुजिः। ५८२ कृगृशृपृकुटिभिदिछिदिभ्यश्च । इः किरस्यात् । किरिर्वराहः । अत्रामरोक्तिमाह स्त्रिय इत्यादिना । अच इः । धातोरित्यस्य विशेषणात्तदन्तविधिः । अजन्ताद्धातोरिः त्यय इत्यर्थः। रविरिति । रु शब्दे अस्मादिप्रत्ययः। डिदित्यननुवर्तनाद् न टिलोपः। पविरिति । पूड पवने । खनिकष्यज्यसि. वसि । खनु अवदारणे, कष हिंसायाम् , अज गतिक्षेपणयोः, असु क्षेपणे, वस आच्छादने, वन षण संभ की, ध्वन शब्दे, प्रन्थ बन्धने, चल कम्पने, एभ्य इप्रत्ययः स्यात् । 'खनिः स्त्रियामा करः स्यात्' इत्यमरः । अजिरिति । बाहुलकाद्वीभावाभावः । वृतेश्छन्दसि वृतु वर्तने अस्मादिः स्यात् । वर्तिरिति । लघूपधगुणः । भुजेः किच्च । भुज पालनाभ्यवहरणयोः, अस्मादिः कित्स्यात् । छन्दसि क्वचिल्लो. केऽपि प्रयुज्यते । कृगशपृकुटि । कृ विक्षेपे, गृ निगरणे, शू हिंसायाम् , विप्रतिपत्तव्यम् । अतः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते' इति मेदिनीकोशादिति । 'अहित्रासुरे सपै इति मेदिनी। अच इः। अजन्ताद्धातोरिः स्यात् । रु शब्दे, पूञ् पवने, पवित्रम् । तृ प्लवनतरणयोः, तरिर्वस्त्रादिस्थापनभाण्डम् । 'स्त्रियां नौस्तरणिस्तरिः' इत्यमर । कु शब्दे । 'कविर्वाल्मीकिशुकयोः। सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति' इति मेदिनी। ऋ गतौ अरिः शत्रुः । कपिलकादित्वाद्वैकल्पिकं लत्वम् । अलिर्भमरः । खनिः । खनु अवदारणे । कष खषेति दण्डके हिसार्थकः । श्रज गतिक्षेपणयोः, असु क्षेपणे, वस आच्छादन, वन षण संभक्ती, वनु याचने, षण् दाने, ध्दन शब्दे, प्रन्थ बन्धने उभौ चुरादी, चल कम्पने, एभ्य इः स्यात् । 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । एयन्ताद् 'अच इः' इति इप्रत्यये खानिरपि । 'खनिरेव मता खानिः' इति द्विरूपकोशः। 'प्रन्थिस्तु प्रन्थिपणे ना बन्धे रुग्भे दपर्वणोः' इति मेदिनी । 'प्रन्धिर्ना पर्वपरुषी इत्यमरः। वनिरग्निरिति । वनु याचने इत्यस्मादिप्रत्यये वनिर्याच्या इत्याहुः । चलिः पशुरिति । चरिभ्यश्चेति पाठान्तरम् । चर गतौ, चरतिर्भक्षणेऽपि । चरिः पशुः। वृतेः । वृतु वर्तनेऽस्मादि: स्यात् । बाहुलकाल्लोकेऽपि 'साज्यं च वर्तिसंयुक्तम्' इति प्रयोगः । 'वर्तिभैषजनिणि नयनाञ्जनलेखयोः। गात्रानुलेपनीदीपदशादीपेषु योषिति' इति मेदिनी। भुजेः। तुज पालनाभ्यवहारयोरस्मादिः स्यात्स च कित् । भुजिरग्निः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy