________________
२७६ ]
सिद्धान्तकौमुदी। [उणादिव्येक इण् स्याद् यलोपरच नेर्दीर्घः । नीविः नीवी। वस्नग्रन्थौ मूलधने च । ५७६ समाने ख्यः स चोदात्तः। समानशब्ने उपपदे ख्या इत्यस्मादिण् स्यात् , स च डिग्च यलोपश्च । समानस्य दात्तः स इत्यादेशश्च । समानं ल्यायते जनैरिति सखा । ५७७ आङि श्रिहनिभ्यां ह्रस्वश्च । इण् स्यात्स च डित् , भाडो हस्तश्च । खियः पाल्यश्रिकोटयः। सर्षे वृत्रासुरेऽप्यहिः । धातुयकारस्य लोपः, उपस कारस्य दीर्घश्चेत्यर्थः । नीविरिति । व्ये धातोरिणि डित्वाहिलोपे धातुयकारस्य लोपे नर्दीधं च रूपम् । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च इत्यमरः । परिपणं मूलधनम् , तदाह वस्त्रग्रन्थी मूलधने चेति । समाने ख्यः। समानशब्दे उपपदे ख्या प्रकथन इत्यस्माद् इया स्यात् । स चोदात्त इत्यत्र सः च उदात्त इति छेदः । एवं च स च इण डित्स्याचलोपश्च । समानस्य तूदात्तः, स इत्यादेशश्चेत्यर्थः । समानशब्दस्य सादेशे सखेति रूपम् । आकि श्रिहनिभ्यां द्वस्वश्च । श्रादि उपपदे धिज सेवायाम, हन हिंसागत्योः, श्राभ्यामिण स्यात् , स च डित्, आडो हस्वश्चेत्यर्थः। अधिः । अहिः । परिपणेऽपि च' इत्यमरः। परिपणो मूलधनम् । समाने। ख्या प्रकथने । इण् स्यादिति । यत्तूज्ज्वलदत्तनोकमिञ् स्यात्स चोदात्त इति । तन । संनिहितेन 'जनिघसिभ्या. . मिण्' इत्यनेन 'वसिवपियजि-' इत्यादिना विहितस्येमो विच्छिन्नत्वात् । यद्यपि तेनैव 'नौ व्यः' इति पूर्वसूत्रे उक्तमिषत्रानुवर्तते न विण। उत्तरसूत्रे उदात्तवचनाज्ज्ञापका. दिति । तदपि न । स चोदात्त इति हि नायं धातोः परत्र विहितं प्रत्ययं निर्देष्टुं तच्छन्दः, किंतु समानशब्दस्य स्थाने विधीयमानमादेशं निर्देष्टुं शन्दस्वरूपपरः । तथा च कथं ज्ञापकता स्यात् । यदपि स इञ् उदात्त इति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रं कृतं तदपि न । सभावविधायकस्याभावात् । यदपि खरमअरीकारादिमिरुक्कं 'समानस्य च्छन्दसि' इति सूत्रेण सभाव इति तदपि न, लोके सखिशब्दस्यासाधुत्वापत्तेः । अपि च 'सखा सखायमब्रवीत्' 'सखा सख्ये अपचन्' 'सखायस्त्वा वमहे' । सखा सखिभ्य ईड्यः' इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आधुदात्त एवेति निर्विवादम् । एवं च इबुदात्त इत्युज्ज्वलदत्तादिव्याख्यानं वेदवार्तानभिज्ञत्वप्रयुक्तमेवेति दिक् । प्राङि । श्रिञ् सेवायाम् , हन हिंसागत्योः । अमरोक्तिमाह स्त्रिय इति । एवं च 'सुप्रातसुश्व-' इति सत्रे चतुरप्रेति तालव्यपाठः संगच्छत एव । तत्सूत्रे केषांचिद्दन्त्यपाठस्तु एतत्सूत्रापर्यालोचनामूलक एवेत्य. वधेयम् । नन्वेवं चतुरनमिति दन्त्यप्रयोगस्य कथं निर्वाह इति चेदत्राहुः-अकारान्तेन दन्त्यगर्भिणास्रशन्देन विप्रहे तत्प्रयोगः साधीयान् । न च ताशे शन्दे