________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७५ भ्यामिण । जनिर्जननम् । घासिभषयमनिश्च । ५७० अज्यतिभ्यां च । भाजिः संग्रामः । प्रातिः पक्षी । ५७१ पादे च । पदाजिः । पदातिः । ५७२ अशिपणाय्यो रुडायलुकौ च । अशेरुट् । राशिः पुजः। पणायतेराय. लुक् । पाणिः करः। ५७३ वातेर्डिश्च । विपक्षी। स्त्रियां वीस्यपि । ५७४ प्रे हरतेः कूपे । प्रहिः कूपः । ५७५ नौ व्यो यलोपः पूर्वस्य च दीर्घः । जनी प्रादुर्भावे, घस्लु भक्षणे आभ्यामिण् स्यात् । जनिरिति । जनिवध्योश्चति निषेधः । अज्यतिभ्यां च । अज गतिक्षेपणयोः, अत सातत्यगमने, आभ्या. मिण स्यात् । आजिरिति । इण्युपधाद्धिः। वीभावस्तु बाहुलकान्न । 'समे दमाशे रणेऽप्याजिः इत्यमरः । पादे च । पादशब्दे उपपदे अज अत आभ्यां इण् स्यादित्यर्थः । पदाजिरिति । 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः । अशिपणाय्योः। अशू व्याप्ती, पण व्यवहारे, पायप्रत्ययान्तः, अशिश्च पणायिश्च तयोरिति विग्रहः । आभ्यामिण स्यात् । अनयोर्यथाक्रमं रुडागम आयप्रत्ययलुक् एतौ स्याताम् । राशिरिति । रुडागमे उपधावृद्धौ च रूपम् । पाणिरिति । इणि पायप्रत्ययस्य लुकि अत उपधाया वृद्धौ रूपम् । वातेर्डिच्च । वा गतिगन्धनयोः, अस्मादिण् स्यात् , स च डित् , डित्त्वाहिलोपः, तदाह विरिति । 'नगौकोवाजिविकिरविविष्किरपतत्त्रयः' इत्यमरः। स्त्रियामिति । कृदिकारादतिन इति डोष् । प्रे हरतेः कूपे । प्रपूर्वाद् हृञ् हरणे इत्यस्मादिण् स्यात् , स च डिदित्यर्थः । तदाह प्रहिरिति । डित्त्वाहिलोपः । 'पुंस्येवान्धुः प्रहिः कूपः' इत्यमरः । नौ व्यो यलोपः । नावुपपदे व्यञ् संवरणे इत्यस्मादिण् स्यात् , स च डित्, च्यलिमस्तु शिल्पिनि' इति मेदिनी । जनि । जनी प्रादुर्भावे, घस्लु अदने, आभ्यामिया 'जनिवध्योश्व' इति वृद्धिप्रतिषेधः । जनिरिति स्त्रीलिङ्गम् । 'कृदिकारात्-' इति पक्षे डीए । 'जनी सीमन्तिनीवध्वोरुत्पत्तावौषधीभिदि' इति मेदिनी। अज्य । अज गतिषणयोः, अत सातत्यगमने । बाहुलकादजेर्वीभावो न । पादे च । पादो. पपदे 'अज्यतिभ्यामिण' । 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः । पदाजिः पादचारी । पदातिपत्तिपदगपादातिकपदाजयः । पद्गश्च पदिकश्च' इत्यमरः । अशिपणाय्योः- अशिश्व पणायिश्चाशिपणायी, तयोरिति विप्रहः । अशु व्याप्ती, पण व्यवहारे पायप्रत्ययान्तः, आभ्यामिण स्यादनयोर्यथाक्रमं रुडायप्रत्ययलुकौ च भवतः। 'राशिमेषादिपुजयोः' इति मेदिनी । वातेः । वा गतिगन्धनयोरस्मादिण् स्यात् । डित्वाहिलोपः । प्रेहर । प्रपूर्वाद्धरतेः कूपे वाच्ये इण । 'पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा' इत्यमरः । नौव्यो। व्यञ् संवरणे । स्त्रीकटीवस्त्रबन्धेऽपि नीवी