________________
२७२ ]
सिद्धान्तकौमुदी ।
[ उणादि • विदिछिदिकीर्तिभ्यश्च । 'हरिर्विष्णावहाविन्द्रे भेके सिंह हये वौ । चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः । पेषिर्वज्रम् | रोहिव्रती । वर्तिः । वेदिः । छेदिश्छेत्ता । कीर्तिः । ५५६ इगुपधात्कित् । कृषिः । ऋषिः । शुचिः । लिपिः । बाहुलकाद्वस्वे लिबिः । तूज़ निष्कर्षे । तुलिः । तुली कूचिका । ५६० भ्रमेः संप्रसारणं च । भृमिर्वातः । बाहुलकाद् भ्रमिः । ५६१ क्रमिइगुपधादिति कप्रत्ययः, एतदुभयबाधनार्थम् । हरिरिति । इनि गुणः । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । अत्र अच इः प्राप्तः । पेषिरिति । इगुपधात्कः प्राप्तः । इगुपधात्कित् । इन्नित्यनुवर्तते । अन्येभ्योऽपि इगुपधेभ्यो धातुभ्य इन्प्रत्ययः स्यात्, स चकिदित्यर्थः । पूर्वसूत्रे पिषादीनां ग्रहणं कित्वाभावार्थम् । श्रत एव पेषिरिति गुणः सिध्यति । कृषिरिति । कित्त्वान्न गुणः । कृष विलेखने धातुः । भ्रमेः संप्रसारणं च । भ्रमु अनवस्थाने, अस्मादिन् स्यात् स च कित्संप्रसारणं चेत्यर्थः । भृमिरिति । कित्त्वान्न गुणः । ननु कथं भ्रमिरित्यत आह वाहुलका
>
.
हरणे, पिष्लृ संचूर्णने, रुह बीजजन्मनि प्रादुर्भावे च वृतु वर्तने । वर्तिदपोपकरणम् । विद सत्तायाम् । विद्यते पुण्यमस्यामिति वेदिः 'वेदिः परिष्कृता भूमिः' । छिदिर्' द्वैधीकरणे, कृत संशब्दने, हरतेः कीर्तयतेश्च 'अच इः' इति प्राप्ते इतरेषां तु 'इगुपधात् -' इति कप्रत्यये प्राप्ते वचनमिदम् । 'यमानिलेन्द्र चन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । 'हरिश्चन्द्रार्कवाताश्वशुक
माहिषु । कप सिंहे हरेऽजेंऽशौ शक्रे लोकान्तरे पुमान् । वाच्यवत्पिङ्गहरितो. ' इति मेदिनी । 'वर्तिर्भषज निर्माणे नयनाञ्जनलेखयोः । गात्रानुलेपनी दीपदशादी पेषु योषिति' इति मेदिनी । 'वेदिः स्यान्मण्डले पुमान् । स्त्रियामङ्गुलिमुद्रायां स्यात्परिकृतभूतले' इति च । 'कीर्तिः प्रसादयशसोर्विस्तारे कर्दमेऽपि च' इति विश्वः । इगुपधात् । कृष विलेखने, ऋऋषी गतौ, शुच शोके, लिप उपदेहे, इत्यादेरिगुपधाद्धातोरिन्स्यात्स च कित् । केचित्तु इगुपधात्किरिति पठित्वा इगोऽपवादः किप्रत्यय इति व्याचख्युः । तन्न । प्रत्ययस्वरेण ऋष्यादीनामन्तोदात्ततापत्तेः । न चेष्टापत्तिः, ‘अग्निः पूर्वेभिर्ऋषिभिः' ‘ऋषिर्विप्रः काव्येन' 'शुचिर्विप्रः शुचिः कविः' इत्यादौ ऋषिशुचिप्रभृतीनामायुदात्तत्वदर्शनात् । न चैवम् 'अर्मादीव्यः कृषिमित्कृषस्व ' इत्यादौ कृषिशब्दस्यान्तोदात्तता न सिध्येदिति वाच्यम् । 'इक्कृष्यादिभ्यः' इतीक्प्रत्यय सत्यन्तोदात्तत्वसिद्धेः । 'ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम्' इति मेदिनी । 'शुचिप्रष्मामि शृङ्गारेष्वाषाढे शुद्धमन्त्रिणि' इति च । भ्रमेः । श्रमु अनवस्थानेऽस्मादि