________________
प्रकरणम् ६७ ] बालमनोरमा तत्त्वबोधिनीसहिता ।
[ २७१
स्थूलः । ५५५ श्रदेर्घ च । श्रध्वा । ५५६ प्र ईरशदोस्तुट् च । प्रेव प्रशस्त्रा च सागरः । प्रेवरी प्रशस्वरी च नदी । ५५७ सर्वधातुभ्य इन् । पचिरभिः । तुडिः । तुण्डिः । वलिः । वटिः । यजिः । देवयजिः । काशत इति काशिः । यतिः । भलिः । मल्ली । केलिः । मसी परिणामे, मसिः । बाहुलकाद्वयः । कोटिः । हेलिः । बोधिः । नन्दिः । कलिः । ५५८ हृपिषिरुहिवृति
1
I
प्य
1
"
तुक् । एवं क्षित्वा सत्वेत्यादि । ध्याप्योः संप्रसारणं च । ध्यै चिन्तायम्, वृद्धौ, श्राभ्यां क्वनिर् स्यात् संप्रसारणं चेत्यर्थः । धीवेति । संप्रसारणे इकारे हल इति दीर्घः । श्रदेर्घ च । अद भक्षणे, अस्मात्क्वनिप् धकारश्चान्तादेश इत्यर्थः । प्र ईरशदोस्तु च । ईर गतौ शदल शातने, आभ्यां प्रे उपपदे क्वनिप् स्यात् तस्य तुडागमश्च । प्रेवेति । प्र ईत्वेति स्थिते अद्गुणः । प्रेति । वनो र चेति ङीप्, रश्चान्तादेशः । एवं प्रशत्वरीति । सर्वधातुभ्य इन् । सर्वेभ्योऽपि धातुभ्य इन्प्रत्यय इत्यर्थः । षचिरिति । डुपचष् पाके, अस्मादिनिप्रत्ययः । ननु कोटिरित्यत्र गाङ्कुटादिभ्य इतीन्प्रत्ययस्य ङित्त्वात्कथं गुण इत्यत्राह बाहुलकादिति । हृपिषिरुहिवृति । हृञ् हरणे, पिष्लृ संचूर्णने, भद्द बीजजन्मनिं तु वर्तने, विद ज्ञाने, छिदिर द्वैधीकरणे, कृत संशब्दने, एभ्य इन्प्रत्यय इत्यर्थः । पूर्वसूत्रेणैव सिद्धे इदं वचनम्, अच इः,
,
सृ गतौ, धृव् धारणे । ध्याप्योः । ध्यै चिन्तायाम्, प्यैङ वृद्धौ, भ्यां क्वनिप्स्यात्संप्र1 सारणं च । धातोर्हल इति दीर्घः । आदेः । अद भक्षणेऽस्मात्कनिप् धकारश्चान्तादेशः । श्रध्वा मार्गः । प्र ईरः । ईर गतौ, शद्लृ शातने, आभ्यां प्रपूर्वाभ्यां क्वनिप्स्यात्तस्य तुड गमश्च । प्रेत्वरीति । स्त्रियाम् 'वनो र च' इति ङीब्रौ । सर्वधातुभ्य इन । डुपचष् पाके, तुडि तोडने, तोडनं दारणं हिंसनं च, वल संवरणे, वट वेष्टने, यज देवपूजादौ, कासृ दीप्तौ यती प्रयत्ने । 'यतिः स्त्री पाठविच्छेदे निकारयतिनोः पुमान्' इति मेदिनी । मल मल्ल धारणे, केल चलने भ्वादिः, केला विलासे कराड्वादिः किल वैत्यक्रीडनयोः तुदादिः, कुट कौटिल्ये, हिल भावकरणे, बुध अवगमने, टुनदि समृद्धौ, कल शब्दसंख्यानयोः । 'गाड्कुटादिभ्यः -' इति ङित्त्वाद् गुणाभावमाशङ्कयाह बाहुलकादिति । 'कोटि : स्त्री धनुषोऽप्रेऽश्रौ संख्याभेदप्रकर्षयोः' इति मेदिनी । 'बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे ' इति च । 'नन्दिद्यूताङ्ग श्रानन्दे स्त्री नन्दिकेश्वरे पुमान्' इति च । इह इनित्येव सूत्रम् । सर्वधातुभ्य इति तु प्रक्षिप्तं व्यर्थ च । एवं 'सर्वधातुभ्यः ष्ट्रन' इत्यादावपि बोध्यमित्याहुः । अतएव दशपायां ष्ट्रनित्येव पठितमिति दिक् । हृपिषि । हृन्