________________
२७० ]
सिद्धान्तकौमुदी ।
1
[ उणादिअध्न्यः प्रजापतिः । कनी दीप्तौ कन्या । बवयोरैक्यम् धन्ध्या । ५५२ स्नामदिपद्यर्तिपृशकिभ्यो वनिप् । स्त्रावा रसिकः । मद्वातिवः । पद्वा पन्थाः । 'अर्वा तुरङ्गगयो:' । पर्व ग्रन्थिः प्रस्तावश्च । शक्का हस्ती । ङीब्रो, शक्करी अङ्गुलिः । ५५३ शीङ्कुशिरुहिजिक्षिसृधृभ्यः क्वनिप् । शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृत्तः । जित्वा जेता । क्षित्वा वायुः । सृत्वा प्रजापतिः । धृत्वा विष्णुः । ५५४ ध्याप्योः संप्रसारणं च । धीवा कर्मकरः । पीवा
अन्येति । स्त्रियां टाप् । 'अर्जुन्यध्न्या रोहिणी स्यात् इत्यमरः । कन्येति । यक रूपम् । बन्ध बन्धने, अस्माद्यकि बन्ध्येत्येव स्यात्, न तु वन्ध्येतीत्यत श्राह वबयोरिति । स्नामदिपद्यर्ति । ष्णा शौचे, मी हर्षे, पद गतौ, ऋ गतौ, पू पालनपूरणयोः, शक्ल शक्तौ, एभ्यो वनिप् स्यात् स्नावेति । उपधादीर्घनोपादि । वैति । ऋधातोर्वनिपि गुणः । वारिवादावगन्धर्वहय सैन्धवसप्तयः' इत्यमरः । ङीव्राविति । वनो र चेत्यनेनेत्यादिः । शीकुशिरुहि । शी स्वप्ने, कुश आह्वाने, रुह बीजजन्मनि, जि जये, क्षि निवासगत्योः, सृ गतौ, भृ धारणे, एभ्यः क्वनिप् स्यात् । जित्वेति । कनिपः पिवाद हस्वस्य पिति कृतीति
1
अन्य इति । यः कित्त्वाद 'गमहन -' इत्युपधालोपे ' हा हन्तेः -' इति कुत्वेन हस्य घः । श्रडागममनुक्त्वा नञ्पूर्वाद्धन्तेर्यगित्यन्ये । अध्येति । स्त्रियां टापू । 'माहेयी सौरभेयी गौरुस्रा माता च श्रङ्गिणी । अर्जुन्यघ्न्या रोहिणी स्यात्' इत्यमरः । संपूर्वाद्धानो यक् आतो लोपश्च । 'संध्या पितृप्रसूनद्यन्तरयोर्युगन्धिषु' इति मेदिनी । 'कन्या कुमारिकागौर्यो रोषधीराशिभेदयोः' इति विश्वमेदिन्यौ | वन्ध्येति । बन्ध बन्धने । ‘बन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजस्त्रियाम्' इति मेदिनी । कौतेर्यति डुक् । कुड्यमित्युज्ज्वलदत्तः । 'यतो नाव ः ' इत्यायुदात्तः । डयव प्रत्ययान्तोऽयमन्तोदात्त इत्यन्ये इति । 'निवाते वातत्राणे' इति सूत्रे वृतिः । डित्वाट्टिलोपे सति कित्करणं व्यर्थं स्यादिति गुणप्रतिषेधाथत्कि काराड्ड कार स्येत्त्वं नेति तत्रैव हरदत्तः । एवं स्थितेऽन्यादयो यगन्ता इति प्रायोवादः । स्नामदि । शौचे। मदी हर्षे, पद गतौ, ऋ गतौ पृ पालनपूरणयोः, शक्ल शक्तौ । 'अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः' इति मेदिनी । 'पर्व क्लीबं मद्दे ग्रन्थो प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः संधौ विषुवत्प्रभृतिष्वपि' इति च । ङीव्राविति । 'वनो र ' इत्यनेन । अङ्गुलिरिति । एतच 'आरोहितं दर्शतं शक्करीर्मम' इत्यादिमन्त्रव्याख्यायां स्पष्टम् । ‘शक्करी छन्दसो भेदे नदीमेखलयोरपि' इति मेदिनी । शीङ् । शीङ् स्वप्ने, कुश आह्वाने रोदने च, रुह बीजजन्मनि प्रादुर्भावे च, जिजये, क्षि निवासगत्योः,