________________
२६८ ]
सिद्धान्तकौमुदी। [ उणादि. ५४७ सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः । सनोतेरसिप्रत्यये उपधावृद्धिश्च । सानसिर्हिरण्यम् । वृजो नुक्च । वर्णसिर्जलम् । पृ, पर्णसिर्जलगृहम् । तड आघाते, तण्डुलाः । अकि लक्षणे,उशच्, अङ्कशः । चरालः 'चषालो यूपकटकः'। इल्वलो दैत्यभेदः। पवलम् । जि भूषा, एयः, ऋकारस्वकारः, धिष्ण्यम् । शलेयः, शल्यम् । 'वा पुंसि शल्यं हारजते क्लीबं कुसुम्भं करके पुमान्' इत्यमरः। सानसिवर्णसि । षणु अदने इत्यादिभ्य इत्थं निपात्यन्त इत्यर्थः। सानसिरित्यत्राह सनोतरिति । उपधावृद्धिश्चेति । धातोरकारस्येत्यर्थः । वृञो नुक् चेति । वृञ् वरणे, अस्मादसिः, धातोर्नुगागमश्चेत्यर्थः । धातोर्गुणे रषाभ्यामिति णत्वे च वर्णसिरिति रूपम् । पर्णसिरिति । पृ पालनपूरणयोः, अस्मादसिप्रस्ययो नुक् च निपात्यते। धातोर्गुणे रषाभ्याभिति णत्वे रूपम् । तण्डुला इत्यत्राह तडि आघाते इति । अस्मादुलच्प्रत्ययः, नुम् च निपात्यते । इदित्त्वाद्वा नुम् सिद्धः । अनुस्वारपरसवौँ । अङ्कुश इत्यत्राह अकि लक्षण इति । इदित्त्वान्नुम्यनुस्वारपरसवौँ । चषाल इत्यत्राह चषेरिति । चष भक्षणे इत्यस्मादित्यर्थः । 'चषालो यूपकटकः' इत्यमरः । इल्वल इति । इलधातुः सौत्रः, तस्माद्वलच् गुणाभावश्च निपात्यते । पल्वलेति। पा पाने इत्यस्माद्वलच, लगागमो निपात्यते, ह्रस्वत्वं च । पिबत्यस्मिन्नित्यधिकरणे सानसि । सनोतेरिति । षणु दाने । वृञो नुक् चेति । वृञ् वरणेऽस्मादसिः । दशपाद्यां तु 'सानसिधर्णसि-' इति पठित्वा धृयो नुक् च धर्णसिर्लोकपाल इति व्याख्यातम् । युक्तं चैतद् 'धर्णसिं भूरिधायसम्' इत्यादिमन्त्रानुगुणत्वात् । पर्णसिरिति । पृ पालनपूरणयोरस्मादसिप्रत्ययो नुक् च। तण्डला इति । उलच्प्रत्ययो नुमागमश्च धातोः । त्रेधा तण्डुलान्विभजेत् । इह चित्स्वरः । 'तण्डुलः स्थाद्विडङ्गे च धान्यादिनिकरे पुमान्' इति मेदिनी । अङ्कश इति । अयमपि चित्स्वरेणान्तोदात्तः । तथाच मन्त्रः 'दीर्घ ह्यङ्कशं पथा' इति 'अङ्कशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः । चराल इति । चष भक्षणे प्रत्ययस्वरेणाद्युदात्तः । उज्ज्वलदत्तस्त्वालजिति चितमाह । तन्न । 'चषालं ये अश्वयूपाय तक्षति' । 'चषालवन्तः खरवः पृथिव्याम्' इत्यादौ चित्खरादर्शनात् । अमरोक्तिमाह चषाल इति । इल्वल इति । इल स्वप्नप्रेरणयोः । वलच गुणाभावः । 'इल्वलस्तारका राजभेदे ना दैत्यमत्स्ययोः' इति मेदिनी । 'इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः' इत्यमरः । पा पाने अस्मादलच् लुगागमः ह्रस्वत्वं च । पिबन्त्यस्मिमिति पल्वलमल्पसरः । 'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः । इकार इति। रपरत्वाभावो