________________
प्रकरणम् ६७ ]
बालमनोरमा-तस्वबोधिनीसहिता
[ २६७
ञ्शक्स्यढडटाऽटचः। जनित्वौ मातापितरौ । दावो दाता । ब्यौतो गन्ता अण्डजः क्षीणपुण्यःव । सृणिरङ्कशश्चन्द्रः सूर्यो वायुश्च । वृश आर्द्रकं मूलकं च । मत्स्यः । षण्ढः । डिस्वाट्टिलोपः । नमतीति नटः शैलूषः । बिभर्ति भरटः कुललो भृतश्च । २४५ श्रन्यभ्यीऽपि दृश्यन्ते । पेवममृतम् । भृशम् । ५४६ कुसेरुम्भो में देताः । कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितो जनपदः ।
दाने, च्युड् च्युतौ, र गतौ, वृञ् वरणे, मदी हर्षे, षम अवैकल्ये, रामु प्रहृत्वे शब्दे च, डु भृञ् धारणपोषणयोः, एभ्य इत्वन्, त्नण्, त्वन्, क्निन्, शक्, स्य, ढ, डट, अटच्, इति प्रत्ययाः स्युः । च्यौत्न इति । लो णित्त्वाद्वृद्धिः । सृणिरिति । क्निनः कित्त्वान्न गुणः । वृश इति । कित्त्वान्न गुणः । मत्स्य इति । स्ये खरि चेति चर्व्वम् | षण्ढ इति । बाहुलकाद् धात्वादेरिति सो न । नट इति । डित्वाट्टिलोपः । टित्त्वान्नटी । अन्येभ्योऽपि । अन्येभ्योऽपि धातुभ्य इत्वन्नादयो भवन्तीत्यर्थः । पेत्वमिति पा पाने इत्यस्माद् इत्वनिद् गुणः । भृशमिति । मृञः शक् कित्त्वान्न गुणः । कुसेरुम्भोदेताः । कुस लषणे, अस्मादुम्भ, उम, ईद, इत, एते प्रत्ययाः स्युः । कुसुम्भमिति । बाहुलकान्न लघूपधगुणः । 'स्यान्म
एभ्यो नवभ्यो यथासंख्यं नव स्युः । जनेरित्वन् । जनेरिडागमेनापि जनित्वेति रूपसिद्धाविकारोच्चारणमुत्तरार्थम् । च्यौत्त इति । त्नणो णित्त्वाद् वृद्धिः । सृणिरिति । निनः कित्त्वान्न गुणः । नित्त्वं तु श्रायुदात्तार्थम् । 'सृषिभ्यां कित्' इति निप्रत्यये त्वन्तोशत्तः साधितः । वृश इति । शकः कित्त्वान्न गुणः । मत्स्य इति । स्यप्रत्यये चर्चेन दस्य तः । श्रन्तोदात्तोऽयम् । 'ऋतन्यञ्जि -' इति सूत्रे तु श्रायुदात्तः साधितः षण्ढ इति । बाहुलकाद्धात्वादेः षस्य सकारो न । प्रत्ययादेर्दस्य तु प्रयोजनाभावान्नत्संज्ञा । ‘शमेर्ट' इति सूत्रे तु तालव्यादिः साधितः । ‘सायं सायो भवेत्कोशः कोषः षर ढश्च शराढवत्' इति द्विरूपकोशः । ' षण्ढो वर्षवरः' इत्यमरः । नट इति । नमतेट् । 'नटी नल्यौषधी स्त्री स्याच्चैलूषाशोकयोः पुमान्' इति मेदिनी । भरट इति । बिभर्तेरटच् । अन्येभ्योऽपि । इत्वन्नादयोऽनुवर्तन्ते । पेत्वमिति । पा पानेऽस्मादित्वन् । भृशमिति । भृञः शक् । कुसेः । कुस संश्लेषणेऽस्मादुम्भ उम ईद इत एते प्रत्ययाः स्युः । 'कुसुम्भं हेमनि महारजने ना कमण्डल' इति मेदिनी । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः' इति च । 'कुसीदं जीवने वृद्ध्यां क्लीबं त्रिषु कुसीदके' इति च । इहु सूत्रे तृतीयो ह्रस्व, देर्दीर्घादिश्च तन्त्रेणोपात्तः । ' वृषाकप्यग्नि-' इति सूत्रे हस्वादिरेवेति वृत्तिकारहरदत्तादिप्रन्थोपष्टम्भेन निर्णीत् म् । ‘पारलौकिक कुसीदमसीदत्' इति श्रीहर्षप्रयोगात्तु दीर्घादिरपि ।