________________
२६६ ] सिद्धान्तकौमुदी। [ उणादि. वलयम् । मलयः। तनयः। ५४० वहोः षुग्दुकौ च । वृषय प्राश्रयः। हृदयम् । ५४१ मिपिभ्यां रुः । मेरुः । पेरुः सूर्यः । बाहुलकास्पिवतेरपि । 'संवत्सरवपुः पारु: पेरुवासीर्दिनप्रणीः' । ५४२ जवादयश्च । जत्रु जत्रुणी। अश्रु अश्रुणी। ५४३ रुशातिभ्यां क्रुन् । रुरुमंगभेदः। शातयतीति शत्रुः । प्रज्ञादौ पाठाद् ध्रस्वस्वम् । ५४४ जनिदाच्युस्वमदिषमिनमिभृभ्य इत्वन्त्वन्तरिकनिभ्यः कयन् । वल संवरणे, मल धारणे, तनु विस्तारे, एभ्यः कयन्प्रत्ययः स्यात् । कयनः कित्त्वमुत्तरार्थम् । वलयमिति । वृह्रोः पुग्दुकौ च । वृञ् वरणे, हृञ् हरणे, प्राभ्यां कयन्स्यात् , यथासंख्यं षुक् दुक् चागमौ स्तः । वृषय इति । कयनः कित्त्वानेह गुणः । हृदयमिति । ह्रियते विषयैरिति हृदयम् । मिपिभ्यां रुः। डु मिञ् प्रक्षेपणे, रि पि गतावियत्र पठितः पिधातुर्ग यर्थकः, प्राभ्यां रुप्रत्ययः स्यात् । मेरुरिति । रुप्रत्यये गुणः । 'मेरुः सुमेरुहेमाद्रिः' इत्यमरः। जम्वादयश्च। एते रुप्रत्ययान्ता निपात्यन्ते । जत्रु इति । जनो प्रादुर्भावे इत्यस्माद् रौ नकारस्य तकारो निपायते । अश्रु इति । अशू व्याप्ती, अस्माद् रुप्रत्ययः । रुशातिभ्यां क्रुन् । रु गतौ, शद्ल शातने ण्यन्तः । 'शदेरगतौ तः' इति तकारे शातीति निर्देशः। रुरुरिति । 'कृष्णसाररुरुन्यकु' इत्यमरः। ननु शत्रुरित्यत्र कथं ह्रखत्वमित्याशङ्कायामाह प्रक्षादाविति। जनिदाच्युसृवृमदि । जनी प्रादुर्भावे, डु दाञ् तनु विस्तारे । 'वलयः कण्ठरोगे ना कङ्कणे पुनपुंसकम्' इति मेदिनी। 'मलयः पर्वतान्तरे। शैलांशे देश आरामे त्रितायां तु योषिति' इति च । 'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः । वृहोः । वृञ् वरणे, हृञ् हरणे, प्राभ्यां कयन् स्यात् , यथाक्रम षुग्दुकावागमौ च भवतः। कयनः कित्त्वं त्विह गुणाभावार्थम् । ह्रियते विषयैरिति हृदयं मनः । मिपीभ्याम् । डुमिञ् प्रक्षेपणे, पीङ् पाने । 'मेरुः सुमेरुहेमादिः' इत्यमरः । पीयते रसानिति पेरुः। पिबतेरिति । पा पाने । हट्टचन्द्रोक्तिमाह संवत्सरवपुरित्यादि । जव्वादयः। रुप्रत्ययान्ता निपात्यन्ते । जनी प्रादुर्भावे । नकारस्य तकारः । जत्रुः स्कन्धसन्धिः । 'सन्धी तस्यैव जत्रुणी' इत्यमरः । तस्य पूर्वोक्तस्य स्कन्धस्य सन्धी इत्यर्थः । असु क्षपणे, अशू व्याप्ती संघाते च । अल अश्रु च नयनजलम् । शीडो ह्रस्वत्वं गुगागमश्च । 'शिप्रर्ना शाकमात्रेऽपि शोभाजनमहीरहे' इति मेदिनी । रुशाति । रु शब्दे, शद्लु शातने ण्यन्तः। 'कृष्णसाररुरुन्यङ्करशम्बररौहिषाः' इत्यमरः । 'रुरुदैले मृगेऽपि च' इति मेदिनी । जनिदा । जनी प्रादुर्भावे, डुदाम् दाने, च्युङ गतौ, स गती, वृश् वरणे, मदी हर्षे, षम ष्टम अवैकल्ये, गणम प्रहृत्वे शन्दे च, डुभृञ् धारणपोषणयोः ।