________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६३ शब्दः । पुलिन्दो जातिविशेषः । ५२६ कुपेर्वा वश्च । कुपिन्दकुविन्दौ तन्तु. वाये । ५२७ नौ ष घथिन् । निषङ्गथिरालिङ्गकः । ५२८ उद्यतेश्चित् । उदरथिः समुद्रः ५२६ सणिच्च । सारथिः। ५३० खर्जिपिजादिभ्य ऊरोलचौ । खजूरः । कर्पूरः । वल्लूरं शुष्कर्मासम् । पिम्जूलं कुशवर्तिः । 'बङ्गेखिश्च' (गण २०१) लाङ्गलम् । कुसूलः । 'तमेढुंग्वृद्धिश्च' (गण २०२) पकरणयोः, पुल महत्त्वे, आभ्यां किन्दच् स्यात् , कचावितौ। पुलिन्द इति। कित्वान्न लघूपधगुणः । 'किरातशबरपुलिन्दा म्लेच्छजातयः' इत्यमरः । कुपेर्वावश्च । कुप क्रोधे, अस्मात् किन्दच्, धातोर्वकारः अन्तादेशश्च वेत्यर्थः । कुविन्द इति । 'तन्तुवायः कुविन्दः स्यात्' इत्यमरः । नौ षओघथिन् । नावुपपदे षञ्ज सड़े इत्यस्माद् घथिन् स्यादित्यर्थः । निषङ्गथिरिति । उपसर्गात्सुनोतीति षत्वम् । घथिनो घित्त्वात् 'चजोः कु घिराण्यतोः' इति कुत्वम् । उद्यश्चित् । उदि उपपदे ऋ गतावित्यस्माद् घथिन्प्रत्ययः स च चिदित्यर्थः । उदरथिरिति । घथिनि कृते धातोर्गुणः । सर्तेणिच्च । सृ गतावित्यस्माद् घथिन् स्यात्, स च णिदित्यर्थः । सारथिरिति । णित्त्वाद् वृद्धिः । 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः। खर्जिपिज्जादिभ्य ऊरोलची। खजे पूजने च, पिञ्ज हिंसायामि. त्यादिभ्य ऊर ऊलच् इति प्रत्ययौ क्रमात्स्याताम् । खर्जादिभ्य ऊरः, पिजादिभ्य ऊलजित्यर्थः । कर्पूर इति । कृपू सामर्थं चेत्यस्माद्रूपम् । बाहुलकात्कृपो रो ल इति लत्वाभावः । वल्लूरमिति । वल वल्ल संवरणे इत्यत्र पठिताद्रूपम् । लङ्गेन चक्रुरेव मुग्धाङ्गनागोमयगोमुखानि' इति माघः । नौ षर्छः। षा सझे । निपूर्वादस्माद् घथिन्स्यात् । 'उपसर्गात्सुनोति-' इत्यादिना षत्वम् । 'चजोः-' इति कुत्वम् । 'आभुरस्य निषङ्गथिः' । रथकूबर इत्यर्थः । उद्य । ऋ गतावुत्पूर्वादस्माद् घथिन् स्यात् स च चित् । सतः । सृ गतावस्माद् घथिन् णित्स्यात् । 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः । खर्जि। खजे माजने, पिज हिंसायाम् । खर्जादिभ्यः पिञ्जादिभ्यश्च यथाक्रमं ऊरऊलचौ स्त: । 'खरं रूप्यफलयोः खजूरः कीटवृक्षयोः' इति मेदिनीहेमचन्द्रौ । कृपू सामर्थे । बाहुलकात् 'कृपो रो लः' इति लस्वाभावः । 'अथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताम्रो हिमवालुका' इत्यमरः । वल्ल संवरणे । वल्लूरम् । 'उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिजकम्' इत्यमरः। एवं शालूरादयो द्रष्टव्याः । 'भेके मण्डूकवर्षाभूशालूरतवदर्दुराः' इत्यमरः । लेङ्गः । लगिर्गत्यर्थः। 'लागलं पुच्छशेफसोः' इति मेदिनी । कुसूल इति । कुस श्लेषणे दन्त्यसकारवान् । 'कुसूलं च कुसौदं च मध्यदन्त्यमुदा