________________
२६२ ] सिद्धान्तकौमुदी। [उणादि५२० कुटः किच्च । कुटल्वगृहम् । कित्त्वमिह चिन्त्यम् । ५२१ शकादिभ्योऽटन् । शकटोऽस्त्रियाम् । ककिर्गत्यर्थः । कङ्कटः सनाहः । देवटः शिल्पी। करट इत्यादि । ५२२ ककदिकडिकटिभ्योम्वच । करम्बं ग्यामिश्रम् । कदिकडी सौत्रौ । कदम्बो वृतभेदः। कडम्बोऽप्रभागः। कटम्बो वादिनम् । ५२३ कदेर्णित्पक्षिणि । कादम्बः कलहंसः । ५२४ कलिकोरमः। कनमः। कर्दमः । ५२५ कुणिपुल्योः किन्दच् । 'कुण शब्दोपरकणयोः' । कुणिन्दः प्रत्ययस्य सकारान्तत्वभ्रमवारणायाह अररू इति । कुटः किश्च । कुट कौटिल्ये, अस्मादरुः स्यात् , स च कित् । कुटरुरिति । कित्त्वान्न लघूपधगुणः। नन्वत्र कित्त्वं व्यर्थ गाकुटादिभ्य इति प्रत्ययस्य ठित्वेनैव गुणाभावसिद्धरित्यत पाह कित्त्वमिहेति । शकादिभ्योऽटन् । अनि नकार प्रायुदात्तत्वार्थः । शकट इति । शक्ल शक्तावित्यस्मादूपम् । ककिर्गत्यर्थ इति । अस्मादटन्निति शेषः । 'उरच्छदः कङ्कटकः' इत्यमरः । देवट इति । दिवु क्रीडाविजिगोषादिषु, अस्मादटनि पुगन्तेति गुणः । कृकदिकडिकटिभ्योऽम्बच । डु कृञ् करणे, कदिकडी सौत्री, कटे वर्षादौ, एभ्यः अम्बच् इत्यर्थः । करम्बमिति । धातोर्गुणः । 'कलम्बश्च वेसवार उपस्करः' इत्यमरः। कर्णित्पक्षिणि । सौत्रात्कदधातोर्जायमानः अम्बच्प्रत्ययः पक्षिण्यभिधेये णिदित्यर्थः। कादम्ब इति । णित्त्वादुपधावृद्धिः। कलिकोरमः । कल संख्याने, कर्द कुत्सिते शब्दे, प्राभ्याममः स्यात् । कलम इति । 'शालयः कलमायाश्च' इत्यमरः । कुणिपुल्योः किन्दच् । कुण शब्दो. कटः । कुट कौटिल्येऽस्मादः स्यात्स च कित्। चिन्त्यमिति । 'गाड कुटादिभ्यः-' इति छित्त्वेनैव गुणाभावसिद्धेरिति भावः । शकाः। शकिर्गत्यर्थ इति । शक्ल शक्लावित्यस्मादटनित्येके । 'कीबेऽनः शकटोऽस्त्री स्यान्' इत्यमरः । देवट इति । देव देवने । करट इति । डुकृञ् करणे' कृ विक्षेपे इत्यस्माद्वा अटन् । 'काकेभगण्डौ करटो' इत्यमरः । 'करटो गजगण्डे स्यात्कुसुम्भे निन्यजीविनि । एकादशाहादिश्राद्ध दुर्दुरूढेऽपि वायसे' इति मेदिनी। कृकदि । डुकृञ् करणे, कटे वर्षावरणयोः। 'करम्बो मिश्रिते बान्तो भान्त्तस्तु दधिसक्तुषु' इति विश्वः । 'कदम्ब निकुरम्बे स्यानीपसर्षपयोः पुमान्' इति च । कदेः । 'कादम्बः स्यात्पुमान्पक्षिविशेष सायकेऽपि च' इति मेदिनी । कलि । कल संख्याने, कर्द कुत्सिते शब्दे । 'कलमः पुंसि लेखन्यां शालौ पाटच्चरेपि च' इति मेदिनी। कुणिपुल्योः । पुल महत्त्वे । कुपेः। कुप कोधेऽस्मात्किन्दच् स्याद् वकारश्चान्तादेशो विकल्पेन । 'तन्तुवायः कुविन्दः स्यात्' इत्यमरः । बाहुलकाद् अल भूषणादौ । अलिन्दम् । 'यस्यामलिन्देषु