________________
प्रकरणम् ६७, बालमनोरमा-तत्त्वबोधिनीसहिता। [२६१ रूषन् । पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्गणे 'पेयूषोऽभिनवं पयः' । ५१७ मस्जेर्नुम्च । 'मस्जेरन्त्यात्पूर्वो नुम् वाच्यः । मम्जूषा । ५१८ गडेश्च । गण्डूषः गण्डूषा । ५१६ अर्तेररुः। पररुः शत्रुः । पररू पररवः । पालनपूरणयोः, ण ह बन्धने, कल शब्दसंख्यानयोः, एभ्य उषच् स्यात् । पीयेरूषन् । पीयधातोर्धातुपाठेऽदर्शनादाह सौत्र इति । मस्जेर्नुम् च । टु मस्जो, शुद्धौ, अस्मा दूषन् नुम् च वाच्य इत्यर्थः । मजषेति । ननु नुमो मित्त्वाद् मिदचोऽन्त्यादिति मझारोत्तराकारात्स्यात् सकारश्च श्रूयेतेत्यत आह मस्जेरन्त्यात्पूर्व इति । तथ च सकारात्परत्र नुमि स्कोरिति सलोपे च रूपमिति भावः । गडेश्च । गडि वदनैकदेशे, अस्मादूषन्स्यात् । गण्डष इति । इदित्त्वान्नुम्यनुस्वार. परसवर्णौ । अर्तेररुः। ऋ गतौ, अस्मादरुप्रत्यय इत्यर्थः । अररुरिति। धातोर्गुणः । 'पुरुषः पूरुषे सांख्यज्ञे च पुनागपादपे' इति विश्वमेदिन्यौ। पूनहि । पृ पालनपूरणयोः, णह बन्धने, कल शब्दसंख्यानयोः । परुषं कबुरे रूक्षे निष्ठुरोक्तो च वाच्यवत्' इति मेदिनी । 'नहुषो राजविशेषे नागभिद्यपि' इति हेमचन्द्रः। उषचश्चित्त्वान्नहुषशब्दस्यान्तोदात्तत्वे प्राप्ते प्रामादित्वावृषादित्वाद्वा अायुदात्तत्व. मित्याहुः । एतच्च 'देवा अकृण्वन्नहुषस्य विश्वम्' इति मन्त्रस्य भाष्ये स्पष्टम् । 'कलुषं त्वाविलैनसोः' इति विश्वः । पीयेः। 'पीयूषममृतं सुधा' इत्यमरः । 'पीयूषं सप्तदिवसावधि तीरे तथाऽमृते' इति मेदिनी। अमरोक्तिमाह पेयष इत्यादि। मस्जः । टुमस्जो शुद्धौ, अस्मादूषन्स्यान्नुमागमश्च धातोः। 'मिदचोऽन्त्यात्परः' सस्य श्चुत्वेन शस्तस्य जश्त्वेन जस्तस्य 'झरो झरि-' इति वा लोपः। लोपाभावपक्षे जकारद्वयम् । मञ्जूषा काष्ठमयं द्रव्यम् । पेटक इति यावत् । 'पिटकः पेटकः पेटा मजूषा' इत्यमरः । गडेः । गडि वदनैकदेशे। 'गण्डूषो मुखपूर्तीभपुष्करप्रसृतोन्मिते' इति मेदिनी । अर्तेः । ऋ गतौ, उकारान्तोऽयं प्रत्ययो न तु सकारान्त इति स्फोरयति अररू अररव इत्यनेन । न चोकारान्तत्वे विवदितव्यम् । 'कंचिद्यावीरररुं शूरमर्त्यम्' 'अपाररुमदेवयजनो जहि' इत्यादिमन्त्रषु तथा दर्शनात् । अत्र व्याचक्षते-'मा नः शंसोरररुषः' इति मन्त्रस्य भाष्ये सान्तोऽयमिति माधवेनोक्तं यत्तत्प्रौढिवादमानं न तु वास्तवम् । अररुष इति पदस्य आद्युदात्तत्वानुपपत्तिप्रससात् । तस्मादातेः लियः वसुश्चेति कसोररिवानित्यनेन नसमासे ङस्यररुष इति व्याख्येयम्। ततश्च 'तत्पुरुषे तुल्यार्थ-' इत्यादिना पूर्वपदप्रकृतिखरे सत्यायुदात्तत्वं सिध्यति । 'गुरुद्वेषो अररुषे दधन्ति' इत्यत्र स्वयमेव रातः क्वसन्तस्य नसमास इत्यादि। व्याख्यानात् । 'यो नो अग्ने अररिवां अघायुः' इत्यादिमन्त्रान्तरसंभवाचेति ।