________________
२१० ]
सिद्धान्तकौमुदी [ उणादिअस्त्रिः अस्त्री अस्त्रयः । ५०६ पतेरत्रिन् । पतत्रिः पक्षी। ५१० मृकणिभ्या. मीचिः । मरीचिः । कणीचिः पल्लवो निनादश्च । ५११ श्वयतेश्चित् । श्वयीचिया॑धि । ५१२ वेत्रो डिच्च । वीचिस्तरङ्गः । नम्समासेऽवीचिर्नरकभेदः ।
५१३ ऋहनिभ्यामूषन् । अरूषः सूर्यः । हनूषो राक्षसः । ५१४ पुरः कुषन्। 'पुर अग्रगमने' पुरुषः । 'मन्येषामपि-' (सू ३५३६ ) इति दीर्घः । पुरुषः । ५१५ पूनहिकलिभ्य उषच । परुषम् । नहुषः। कलुषम् । ५१६ पीये. अस्मात् त्रिनिः चकारान्त्रिप् च स्याताम् । त्रिन्याह अत्त्री। अत्त्रिणविति । नकारान्तत्वप्रदर्शनायोक्तम् । अत्रिरिति । त्रिपि रूपम् । पतेरत्रिन् । पत्ल गतो, अस्मादत्रिन्प्रत्यय इत्यर्थः । पतत्रिरिति । नित्त्वादायुदात्तः । 'पतत्रि. पत्रिपतगपतत्पत्ररथाण्डजाः' इत्यमरः । मृकणिभ्यामीचिः। मृङ् प्राणत्यागे, कण शब्दार्थः, आभ्यामीचिप्रत्यय इत्यर्थः। श्वयतेश्चित । टु श्री श्वि गति. वृद्धयोः, अस्मादीचिप्रत्ययः स्यात् , स च चिदित्यर्थः । चित्त्वमन्तोदात्तत्वार्थम् । वेजो डिच्च । वेञ् तन्तुसन्ताने अस्मादीचिडित्स्यात् । वीचिरिति । डित्त्वाहिलोपः । अन्यथा अयादेशे श्ववीचिवद् वीचिरिति स्यात् । ऋहनिभ्यामूषन् । ऋ गतौ, हन हिंसागत्योः, आभ्यामूषन्स्यात् । अरूष इति । ऊषनि गुणः । पुरः कुषन् । पुर अग्रगमने, अस्मात्कुषन्स्यात् । पुरूष इति । कुषनः कित्त्वाद्गणाभावः। ननु कथं तर्हि पूरुष इत्यत्राह अन्यषामपीति । पूनहिकलिभ्य उषच् । पृ अत्रिर्मुनिर्भेदः । उज्ज्वलदत्तादयस्तु अदेखिन्निति पठित्वा अत्रिरित्युदाजहार । तन्न । त्रिपैवेष्टसिद्धौ प्रत्ययान्तरवैयर्थ्यात् । गोवर्धनस्तु अदिस्त्रेनिच्चेति पठित्वा निदिति वचनान्नकारस्य नेत्संज्ञा अत्री अत्रिणौ अत्रिण इत्याह । तदपि न, नित्त्वे सत्यायुदात्तत्वापत्तेः । न चेष्टापत्तिः । 'जहीन्यत्रिणं पणि' । 'दूरे वा ये अन्ति वा केचिदत्रिणः' । 'अग्ने दंसिन्य १ त्रिणाम्' इत्यादावन्तोदात्तस्य निर्विवादत्वात् । अतएव 'न लुमताजस्य' इति सूत्रे 'अदेखिनिश्चे'त्येव कैयटोऽप्याहेति दिक् । पतेः। पत्ल गती। पतत्रिरिति । पक्षवाचकात्पतत्रशब्दान्मत्वर्थे इनि तु नान्तः पतत्री पतत्रिणौ पतत्रिण इत्यादि । मृकणि। मृङ प्राणत्यागे, कण शब्दार्थः। 'मरिचिः कृपणे दीप्तौ ऋषिभेदे च दृश्यते' इति विश्वः । 'मरीचिर्मुनिभेदे ना गभस्तावनपुंसकम्' इति मेदिनी । 'कोचिः पुष्पितलतागुजयोः शकटे स्त्रियाम्' इति च । श्वयतेः। टुओश्वि गतिवृष्योः, अस्मादीचिप्रायश्चित्स्यात् । वेषः। वेञ् तन्तुसन्तानेऽस्मादीचिर्डित्स्यात् । 'वीचिः स्वल्पे तर स्यादवकाशे सुखे द्वयोः' इति विश्वमेदिन्यो । ऋहनि । ऋ गतौ, हन हिंसागत्योः । पुरः । कुष निष्कर्षे । कित्वाद् गुणाभावः ।