________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसाहता। [२५६ ५०५ अदिशदिभृशुभिभ्यः किन् । अद्रिः । शहिः शर्करा । भूरि प्रचुरम् । शुभिब्रह्मा । ५०६ वक़यादयश्च । किन्ता निपात्यन्ते । वहिर्वायभेदो गृहदारु पार्वास्ति च । वप्रिः क्षेत्रम्। 'हिरहिरव चरबः' । तदिः सौत्रो धातुः। तन्द्रिर्मोहः । बाहुलकाद् गुणः। मेरिः । ५०७ राशदिभ्यां त्रिपू । रात्रिः। शस्त्रिः कुअरः । ५०८ अदेस्त्रिनिश्च । चास्त्रिप् । अत्री मत्रिणी अत्रिणः । गुणाभावः। 'धीमान्सूरिः कृती कृष्टिः' इत्यमरः । अदिशदि । अद भक्षणे, शद्ल शातन, भू सत्तायाम् , शुभ शोभायें, एभ्यः क्रिमित्यर्थः । कनावितो, नित्त्व. मायुदात्तार्थम् । वङ्कगादयश्च । एते निपात्यन्ते । प्रत्ययमाह क्रिनन्ता इति। . वङ्किरिति । वकि कौटिल्ये, अस्मारिकन् धातोरिदित्त्वान्नुम् , अनुस्वारपरसवौँ । वपिरिति । वप् बीजसन्ताने इत्यस्मादूपम् । प्रत्ययस्य कित्त्वेऽपि निपातनात्संप्रसारणाभावः। अहिभषार्थः, अघि वधि मघि गत्याक्षेपे इति पठितोऽधिः, ताभ्यां किनि, अहिः, अविरिति रूपे । उभयत्रापि धातोरिदित्त्वान्नलोपो न । राशदिभ्यां त्रिप् । रा दाने, शद्ल शातने, आभ्यां त्रिप् स्यात् । अदेस्त्रिनिश्च । अद भक्षणे रमतिरसि' । नङः । ष्ल् प्राणिप्रसवे । कित्त्वाद् गुणाभावः । 'धीमान् सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः' इत्यमरः । दशपायां तु 'सुमोरिन् दीर्घश्च' इति पाठस्तत्र रिनो नकारो नानुबन्ध उत्तरसूत्रे स्तिन्प्रत्ययारम्भात् । अनुबन्धत्वे हि लाघवादिहैव किन्नुच्येत । तया च सूरी सूरिणौ सूरिण इत्यादि रूपम् । अतएवाभिधानमालायां सूरीति नान्तमु राहृतमित्यविधेयम् । दशपादोवृत्तिकारैस्तु नित्त्वं स्वीकृत्य सूरिरित्युदाहृतं तदेतेन प्रत्युक्तम् । स्वरविरुद्धमपि 'सदा पश्यन्ति सूरयः' 'विसूरयो दधतो विश्वमायुः' इत्यादौ सूरिशब्दस्यान्तोदात्तत्वदर्शनात् । अदि । अद भक्षणे, शल शातने, भू सत्तायाम् , शुभ शुम्भ शोभार्थे । 'श्रद्रयो द्रुमशैलार्की' इत्यमरः । भूरिनर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकम्' इति मेदिनी । वक्रयादयश्च । वकि कौटिल्ये, टुवप् बीजसन्ताने । निपातनात्संप्रसारणाभावः । अहिभषार्थश्चुरादिण्यन्तः । अधि गतौ गत्यारम्भे च । लिभी भये । तन्द्रिरिति । 'कृदिकारात्-' इति पक्षे डीए । 'तन्द्री निद्राप्रमीलयोः' इति मेदिनी । 'तन्द्री तन्द्रिश्च तन्द्रायाम्' इति द्विरूपकोशः । 'विभज्य नकंदिवमस्ततन्द्रिणा' इति भारविः । प्रत्ययस्य कित्त्वाद् गुणाभावमाशयाई बाहुलकादिति । राशदि । रा दाने, शद्ल शातने । 'शविर्नाम्भोधरे विष्णो' इति मेदिनी । 'शत्रिमप्र उपमां केतुमर्यः' इति मन्त्रस्य वेदभाष्ये तु उपमाम् उपमानभूतं केतुं प्रख्यातं शत्रिम् एतनामकं राजर्षिमिति व्याख्यातम् । प्रदेः । भद भक्षणे, अत्री भनकः