________________
२५८] सिद्धान्तकौमुदी। [उणादि. दीव्यसेः किकिपूर्वात् किकीदिविश्चाषः। बाहुलकाद् ध्रखदीर्घयोविनिमयः, 'चाषेण किकिदीविना' । ४६७ पातेर्डतिः। पतिः। ४६८ शकेऋतिन् । शकृत् । ४६६ अमेरतिः । अमतिः कालः। ५०० वहिवस्यतिभ्यश्चित् । वहतिः पवनः । 'वसतिगृहयामिन्योः' । अरतिः क्रोधः। ५०१ अञ्चे को वा। प्रकतिरशतिर्वातः। ५०२ हन्तेरंह च । हन्तेरतिः स्यादंहादेशश्च धातोः । हन्ति दुरितमनया अंहतिर्दानम् । 'प्रादेशनं निर्वपणमपवर्जनमंहतिः । ५०३ रमेनित् । 'रमतिः कालकामयोः' । ५०४ सूङः क्रिः । सूरिः । किकीदिविरिति । दिधातोः किकिपूर्वात् किनि कित्त्वाद् लघूपधगुणाभावे 'लोपो व्योर्वलि' इति धातुवकारस्य लोपे किकिशब्दावयवस्यान्त्यस्य इकारस्य दी? निपात्यते । 'अथ चाषः किकीदिविः' इत्यमरः। विनिमय इति । दिव्शब्देका. रस्य दीर्घः, किकिशब्दावयवस्य हस्ख इत्यपि निपात्यते । लोके उभयोरपि दर्शनादिति भावः । तदेवाह चाषेण किकिदीविनेति । पातेर्डतिः। पा रक्षणे, अस्माडतिप्रत्यय इत्यर्थः । पतिरिति । डिस्वाहिलोपः । शके: ऋतिन् । शक्ल शक्ती, अस्मातिन्नित्यर्थः । 'शमलं शकृत्' इत्यमरः । अमेरतिः । श्रम गत्यादौ, अस्मा. अस्मादतिप्रत्यय इत्यर्थः। वहिवस्यतिभ्यश्चित् । वह प्रापणे, वस निवासे, ऋ गती, एभ्यः अतिप्रत्ययः स्यात् , स च चित् । वसतिरिति । 'वसती रात्रिवे. श्मनोः' इत्यमरः । अश्चेः को वा । अञ्चु गतो, अस्मादतिः स्यात् ककारश्चान्तादेशो विकल्पेन । हन्तरंह च । हन हिंसागत्योः, अस्मादतिप्रत्ययः धातोरंहादेशश्चेत्यर्थः। अहतिरित्यस्यार्थ विवृण्वन्नमरोक्तिमाह प्रादेशनं निर्वपणमिति रमेनित् । रमु क्रीडादौ, अस्मादतिप्रत्ययः, स च नित्स्यात् , नित्त्वं खरार्थम् । सूङः क्रिः । षूङ् प्राणिप्रसवे, अस्मात् किः प्रत्यय इत्यर्थः । सूरिरिति । कित्त्वाद् विनिमय इति । 'किकिदीविकिकीदिवौ' इति द्विरूपकोशः। पातेः । पा रक्षणे डित्त्वाहिलोपः । 'पतिधवे ना त्रिध्वीशे' इति मेदिनी । शकः । शक्ल शक्ती । 'उच्चारावस्करौशमलं शकृत् । गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशी स्त्रियाम्' इत्यमरः। अमेः । श्रम गतौ । 'अथामतिः पुंसि हिमदीधितिकालयोः' इति मेदिनी। वहिः । वह प्रापणे, वस निवासे, ऋ गतौ । 'वसतिः सचिवे गवि' इति विश्वः । 'वसतिः स्यात् स्त्रियां वासे यामिन्यां च निकेतने' इति मेदिनी। अश्वेः । अञ्चु गतो, अस्मादतिः स्यात्ककारश्चन्तादेशो विकल्पेन । हन्तेः । हन हिंसागत्योः, अमरोक्तिमाह प्रादेशनमित्यादि । रमेः । रमतेरतिः स्यात्स च नित् । 'रमतिर्नायके नाके पुंसि स्यात्' इति मेदिनी । नित्त्वमायुदात्तार्थम् । 'रन्तिरसि