________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसाहता। [२५७ स्तीविरध्वर्युः । जागृविपः । ४६५ दिवो दे दीर्घश्वाभ्यासस्य । 'दीदिविः स्वर्गमोचयो. । ४६६ कृविघृष्विछविस्थविकिकीदिवि । कृविस्खन्तुवायद्रव्यम् । घृष्विर्वराहः । छास्थोईस्वस्वं च । छविर्दीप्तिः, स्थविस्तन्तुवायः। वरणे, दृङ् आदरे, आभ्यां विन्नियर्थः । वर्विरिति । धातोर्गुणः । शस्तृजागृभ्यः किन् । ज वयोहानौ, शू हिंसायाम् , स्तृञ् श्राच्छादने, जागृ निद्राक्षये, एभ्यः क्विन् स्यात् , कनावितौ। जीविरिति । कित्त्वाद् गुणाभावे 'ऋत इद्धातोः' इति इत्त्वे 'हलि च इति दीधै रूपम् । 'वेरपृक्तस्य' इति लोपस्तु न, अपक्त. स्येत्युक्तेः । दिवो द्वे। दिवु क्रीडाविजिगीषादिषु, अस्माक्किन् , धातोदित्वम् , अभ्यासस्य दीर्घश्च स्यात् । दीदिविरिति । पुनर्हख इति अभ्यासह खस्तु न शङ्कय , लक्ष्ये लक्षास्येति न्यायात् । न चाभ्यास दीर्घात्पूर्वम् इकारस्य ह्रखविधाने फलाभावाद् हखो न प्रवर्तते । एवं च न लदो लक्षणमिति न्यायविरोध इति वाच्यम् , फलाभावेऽपि पर्जन्यवच्छास्त्रप्रवृत्या दीर्घा पूर्व हृख प्रवृत्तेदुरित्वात् । 'श्रोदनोऽत्री स दीदिविः' इत्यमरः। कृविविछवि । डु कृञ् करणे, घृषु सेचने, छो छेदने, या गतिनिवृत्तौ, दिवु क्रीडादौ किकिपूर्वः, एते किन्नन्ता निपात्यन्ते इत्यर्थः । तत्र कृविरित्यत्र कित्त्वान्न गुणः । एवं घृष्विरित्यत्रापि । छविरिति । छो छेदने इत्यस्मात् प्रलये 'श्रादेच-' इत्यात्त्वे ह्रस्वोऽनेन निपात्यते । एवं स्थविरित्यपि । इति ङीष् । दर्वी । जश । अ वयोहानौ, शू हिंसायाम् , स्तृञ् आच्छादने, जाट निद्राक्षये, किनः कित्त्वाद् 'ऋत इद्धातोः' इति इत्वे रपरत्वे जीविरित्यादि । दिवो। दिवु क्रीडादौ अस्म त् क्विन् , शित्त्वाद् गुणाभावः 'दीदिविधिषणानयोः' इति विश्वः । 'दीदिविर्ना धिषणे त्वेतदस्त्रियाम' इति मेदिनी। धिषणो बृहस्पतिः । 'दीदिवि. दशकरश्चक्षुः सुरगुरुगुरुः' इति त्रिकाण्डशेषः । दीदिविदिशार्चिः स्याजीवः प्राक्फल्गुनीसुतः' इति हारावली । 'ओदनोऽस्त्री सदीदिविः' इत्यमरः । अत्र सदीदिविर्दीदिविसहित इति व्याख्यानं न्याय्यम् । अत्र स इति विशेषणाद्दीदिविः पुंल्लिम इति केषांचियाख्यानं नादर्तव्यम् । स इति छेदने तु अस्त्रियामिति न लभ्येत । ततश्चान्ते तदस्त्रियामिति पूर्वोक्तमेदिनीप्रन्थो विरुध्येतेति ध्येयम् । 'गोपामृतस्य दीदिविम्' इति मन्त्रे तु दोतमानमित्यर्थः । कृवि । डुकृञ् करणे, वृषु सेचने, छो छेदने, टा गतिनिवृत्तौ, दिवु क्रीडादौ, एते किन्नन्ता निपात्यन्ते । घृष्विर्वराह इति । 'उग्रस्य यूनः स्थविरस्य घृष्वेः' इति मन्त्रे तु घृष्वेः कामानां वर्षकस्येत्यर्थ इति व्याख्यातम् । घृषु सेचने इति धात्वर्थानुगमात् । 'छविः शोभारुचोर्योषित्' इति मेदिनी । 'अथ चाषः किकीदिविः' इत्यमरः ।