________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५५ रश्मिः किरणो रज्जुश्च । ४८७ दल्मिः । दल विशरणे। दलिमरिन्द्रायुधम् । ४८८ वीज्याज्वरिभ्यो निः । बाहुलकारणस्वम् । 'वेणिः स्यात्केशविन्यासः प्रवणी च स्त्रियामुभे'। ज्यानिः । जूर्णिः । ४८६ सृवृषिभ्यां कित् । सृणिरङ्कुशः । 'वृष्णिः क्षत्रियमेषयोः' । ४६० अङ्गेर्नलोपश्च । अग्निः। ४६१ भुवः कित् । भू सत्तायामित्यस्माद् मिप्रत्ययः, स किदित्यर्थः । भूमिरिति । कित्त्वान्न गुणः। अत्र अर्तिभुवोरूच्चेत्येव सूत्रं कर्तुं शक्यम् , भुवः किदिति च त्यक्तुं शक्यम् । न च भूमिरित्यत्र गुणप्रसङ्गः, ऊकारस्य उकारविधानसामर्थन गुणाभावस्य सिद्धत्वात् । प्रश्नोते रश्च । अशू व्याप्ती, अस्माद् मिः, धातोः रशादेशश्च । रश्मिरिति। 'किरण प्रग्रहौ रश्मी' इत्यमरः । दल्मिः । इत्थं निपात्यत इत्यर्थः । धातुं प्रदर्शयति दल विशरणे इति । वीज्याज्वरिभ्यो निः। वी गतिव्याप्त्यादौ, ज्या वयोहानौ, ज्वर रोगे, एभ्यो निप्रत्ययः । ननु वेणिरित्यत्र कथं णत्वं रषाभ्यां परत्वाभावादित्यत्राह बाहुलकादिति । अमर शमाह वेणिः स्याकेशविन्यास इति । ज्यानिरिति। जूर्णिरिति । ज्वरधातोनिप्रत्यये ज्वरत्वरेत्यूठ । सृवृषिभ्यां कित् । स गती, वृषु सेचने, अभ्यां निः कित्स्यात् । सृणिरिति । ऋकारात्परत्वारणत्वम् , कित्त्वान्न गुणः । 'अङ्कशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः । वृष्णिरिति । रषाभ्यामिति णत्वम् । अङ्गेनलोपश्च । अगिर्गत्यर्थः । अस्मान्निः स्याद्, धातोरिदित्त्वाल्लब्धनकारस्य लोपश्चेत्यर्थः । किदित्यनुवर्य नेः कित्त्वविधानेऽपि धातोरिदित्त्वाद् 'अनिदिताम्' इति लोपो न इति मेदिनी । भुवः । भवतेमिः कित्स्यात् । भवन्ति भूतान्यस्यामिति भूमिः । 'भूमिर्वसुन्धरायां स्यात्स्थानमात्रेऽपि च स्त्रियाम्' इति मेदिनी । 'भूर्भूमिरचलानन्ता' इत्यादिस्त्वमरः । अश्नोतेः । अशु व्याप्तौ, अस्मान्मिः धातो रशादेशश्च । 'रश्मिः पुमान् दीधितौ स्यात्पक्षप्रग्रहयोरपि' इति मेदिनी। वीज्या । वी गती, ज्या वयोहानी, ज्वर रोगे । अमरोक्तमाह वेणिः स्यादित्यादि । 'कृदिकारात्-' इति डीए । 'वेणी केशस्य बन्धने । नद्यादेरन्तरे देवताडे' इति मेदिनी । 'वेणी खरागरी देवताडो जीमूत इत्यपि' इत्यमरः । 'ज्यानि नौ स्रवन्त्यां च' इति विश्वः । 'ज्वरत्वर-' इत्युपधाया वकारस्य च ऊठ् । जूर्णिः स्त्रीरोगः । सृवृषि । स गती, वृषु सेचने, आभ्यां निः कित्स्यात् । 'अङ्कशोऽस्त्री सणिः स्त्रियाम्' इत्यारः। सृणिः स्यादङ्कशे पुमान्' इति कोशान्तरम् । अत एव 'आरक्षमनमवमत्य सृणिं शिताग्रम् ' इति माघे पुल्लिङ्गप्रयोगः । 'वृष्णिस्तु यादवे मेषे वृष्णिः पाखण्डचण्डयोः' इति विश्वः । 'एन्दे वृष्णि षोडशिनि तृतीयम्' इति श्रुतौ वृष्णि मेषमित्यर्थः । अङ्गे। अगिर्गत्यर्थः।