________________
२५४ ]
सिद्धान्तकौमुदी ।
[ उणादि
'शमेर्बुक् च' (गण २०० ) । शम्बूको जलशुक्तिः । ४८२ शलिमण्डिभ्यामूकरण | शालूकं कन्दविशेषः । मण्डूकः । ४८३ नियो मिः । नेमिः । ४८४ अर्तेरुच्च । ऊर्मिः । ४८५ भुवः कित् । भूमिः । ४८६ प्रश्नोते रश्च । 1 ‘उलूके करिणः पुच्छमूलोपान्ते च पेचके' इत्यमरः । वावदूक इति । वदेयङ्लुगन्तादूकः । ' वावदूकश्च वक्तरि' इत्यमरः । भल्लूक इति । भल भल्ल परिभाषा हिंसादानेष्विति पठितभल्लधातो रूपम् 1 'ऋज्ञाच्छभल्लभल्लूकाः' इत्यमरः । शमेर्बुक् च । शम उपशमे, श्रस्मादूकः धातोर्बुगागमश्च । 'शम्बूका जलशुक्तयः' इत्यमरः । शालिमण्डिभ्यामूकरण । शल गतौ, मडि भूषायाम्, श्रभ्यामूकण्नत्यय इत्यर्थः । शालूक इति । ऊकणो णित्त्वादुपधावृद्धिः । 'शालूकमेर्षा कन्दः स्यात्' इत्यमरः । मण्डूक इति । प्रत्ययस्य णित्त्वऽपि अकारस्योपधात्वाभावान्न वृद्धिः । नियो मिः । णीञ् प्रापणे, अस्य निय इति पञ्चम्यन्तम् अस्मान्मिप्रत्यय इत्यर्थः । नेमिरिति । 'चक्रं रथाङ्गे तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्' इत्यमरः । अर्तेरूच्च । मिरित्यनुवर्तते । ॠ गतावित्य - स्मान्मप्रत्ययो धातोरूकारश्चादेश इत्यर्थः । ऊर्मिरिति । धातोरूत्वे रपरत्वम् ।
1
मेदिनी । वदेर्यङ्लुगन्तदूकः । ' वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्करि' इत्यमरः । भल्लूक इति । भल्ल परिभाषणे इत्यस्मादूकः । शमेः । शम उपशमेऽस्मादूकः धातोर्मुगागमश्च । ' शम्बूको गजकुम्भान्ते घोषे च शुद्रतापसे' इति मेदिनी । बाहुलकादूकप्रत्यये ह्रस्वमध्योऽपि । 'जम्बूकं जम्बुकं प्राहुः शम्बूकमपि शम्बुकम्' इति द्विरूपकोशः । जम्बू कबन्धूकादयोऽप्यत्रैव द्रष्टव्याः । 'जम्बूकः फेरवे नीचे पश्चिमांशापतावपि ' इति मेदिनी - विश्वप्रकाशौ । ' बन्धूकं बन्धुजीवे स्याद्बन्धूकः पीतसारके' इति च । शलिमण्डि । शलं गतौ, मडि भूषायां हर्षे च । 'सौगन्धिकं तु कहारम्' इत्यायुपक्रम्य 'शालूकमेषां कन्दः स्यात्' इत्यमरः । एष
सौगन्धिकादीनां कुमुदकैरवान्तानां कन्दो मूलं शालूकमित्यर्थः । मराउते वर्षासमयमिति मण्डूको मेकः । नियो मिः । णीञ् प्रापणे । नयति चक्रमिति नेमिश्चकावयवः । 'नेमिर्ना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम्' इति मेदिनी । वाहुलकादन्यतोऽपि । या प्रापणे, 'याभिः स्वसृकुलस्त्रियो' इत्यन्तस्थादौ रभसः । ' जामिः स्वसृकुलखियो:' इति चवर्गतृतीयादावजयकोशः । 'चवर्गादिरपि प्रोक्को जामिः स्वसृकुलस्त्रियोः' इति द्विरूपेषु विश्वः । अर्तेरूच्च । ऋ गतावित्यस्मान्मिः, धातोरूकारादेशश्च । उच्चेति वक्तुमुचितम् । रपरत्वे 'हलि च' इति दीर्घसंभवात् । 'ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः । वस्त्रसंकोचरेखायां वेदनापीडयोरपि'
1