SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५३ स्यते हातेश्च विपूर्वाभ्यामाप्रत्ययः । विषा बुद्धिः, विहा स्वर्गः, अन्यये इमे । ४७७ पच एलिमन् । 'पचेलिमो वह्निरव्योः' । ४७८ शी हो धुक्लक्कलञ्चालनः । चत्वारः प्रत्ययाः स्युः। शीधु मद्यम् । शीलं स्वभावः । शवनः । शेवालम् । बाहुलकाद् वस्य पोऽपि । 'शेवालं शैवलो न स्त्री शेपालो जलनीलिका' । ४७६ मृकणिभ्यामूकोकणी । मरूको मृगः । काणूक: काकः। ४८० वलेरूकः। वलूकः पक्षी उत्पलमूलं च । ४८१ उलूकादयश्च । वलेः संप्रसारणमूकश्च । उलुकाविन्द्रपेचकौ । वावदूको वका । भल्लूकः । गम्लु गतावित्यस्मादीरन्प्रत्ययो भकारश्चान्तादेशो नुमागमविकल्पश्च निपात्यत इत्यर्थः । 'निम्नं गभीरं गम्भीरम्' इत्यमरः । विषा विहा। इमे निपात्येते, तदेवाह स्यतेरिति । षोऽन्तकर्मणि, ओ हाक् त्यागे, आभ्यामित्यर्थः । विषावृक्षभेदेऽपि । 'विश्वा विषा प्रतिविषा' इत्यमरः । पच एलिमच । डु पचष् पाके, अस्मादेलिमजित्यर्थः । कृत्यप्रक्रियायां तु 'केलिमर उपसंख्यानम्' इत्युक्तम् । शीङो धुक् । शीङ् स्वप्ने, अस्माद् धुक् , लक्, वलञ् , वालन् , एते चत्वारः प्रत्ययाः स्युः । शीधु इति । धुकः कित्त्वान्न गुणः । 'मैरेयमासवः शीधुः' इत्यमरः । शीलमिति । लकः कित्त्वाद् गुणाभावः । शैवलमिति । जित्त्वाद् 'अचो णिति' इति वृद्धिः । शेवालमिति । वालनि गुणः । 'जलनीली तु शेवालं शैवले तु कुमुद्वती' इत्यमरः । मृकणिभ्यामूकोकणौ । मृङ प्राणत्यागे, कण निमीलन, आभ्यामूकऊकणप्रत्ययौ क्रमात्स्त इत्यर्थः । मरूक इति । ऊके गुणः । कारणूक इति । ऊकणो णित्त्वादुपधावृद्धिः । वलेरूकः । वल संवरणे, अस्मादूकप्रत्यय इत्यर्थः । उलूकादयश्च । निपात्यन्त इत्यर्थः । निपातनमेवाह वलेरिति । संप्रसारणमिति । वकारस्येत्यर्थः । षोऽन्तकर्मणि, ओहाक् त्यागे, आभ्यां विपूर्वाभ्यामाप्रत्ययो निपात्यते । पचः। डुपचष् पाके, अस्मादेलिमच् स्यात् । कर्तरि अयम् । कृत्य. प्रत्ययेषु तु केलिमर उपसंख्यातः । शीङः। शी स्वप्ने, शेरतेऽनेनेति शीधुर्मद्यविशेषः । 'मेरेयमासवः शीधुः' इत्यमरः । अर्ध दिपाठात् क्लीबं च 'पुनपुंसकयो रुजीवातुस्थाणुशोधवः' इति त्रिकाण्डशेषः । 'शील स्वभावे सवृत्ते' इति मेदिनी । 'जलनीली तु शैवालम्' इत्यमरः। 'शैवलं पद्मकाष्ठे स्यात् शैवाले तु पुमानयम्' इति मेदिनी । शब्दार्णवोक्तिमाह शेवालं शैवल इति । मृकणि । मृत् प्राणत्यागे, कण शब्दार्थः, ऊकश्च उकण च ऊकोकणौ एतौ प्रत्ययौ यथाक्रम भवतः । वलेः। वल संवरणे। 'उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि' इति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy