________________
२५२ ]
सिद्धान्तकौमुदी ।
[ उणादि
करीरो वंशाङ्कुरः । शरीरम् । परीरं फलम् । कटीरः कन्दरो जघनप्रदशश्च । पटीरश्चन्दनः कण्टकः कामश्च । 'शौटीरस्त्यागिवीरयोः' । ब्राह्मणादिखात् ष्यञ् । शौटीर्यम् । ४७१ वशेः कित् । उशीरम् । ४७२ कशेर्मुद च । कश्मीरो देशः । ४७३ कृञ उच्च | कुरीरं मैथुनम् । ४७४ घसेः किच्च । चीरम् । ४७५ गभीरगम्भीरौ । गमेर्भः । पते नुम् च । ४७६ विषा विहा ।
,
कृशृपृकटिपटिशौटिभ्य ईरन् । कृ विक्षेपे, शृ हिंसायाम्, पृ पालनपूरणयोः, कटे वर्षावरणयोः, पट भाषार्थः, शौट्ट गर्वे, एषां द्वन्द्वात्पञ्चमी । एभ्य ईरन्प्रत्ययः स्यात् । करीर इति । ' वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना' इत्यमरः । पटीर इति । वशेः कित् । वश कान्तौ श्रस्मादीरन् कित्स्यात् । उशीरमिति । कित्त्वात्सं प्रसारणम् । कशेर्मुद् च । कशधातुः सौत्रः, तस्मादीरन् स्यात् तस्य मुडागमश्च । कृञ उच्च । डु कृञ् करणे, अस्मादीरन्स्याद् धातोरन्त्यस्य उकार आदेशश्च रपरो भवतीत्यर्थः । कुरीरमिति । उत्वं रपरत्वम् । घसेः किञ्च । घस्लृ अदने अस्मादीरन्स्यात् स च कित् । क्षीरमिति । गमहनेत्युपधालोपे खरि चेति च त्वम् । गभीरगम्भीरौ । एतौ निपात्येते । निपातनमाह गमेरिति ।
>
1
1
इति मेदिनी । कृशृपृ । कॄ विक्षेपे, शू हिंसायाम्, पृ पालनपूरणयोः, कटे वर्षांवरगयोः, इट किट कटी गतौ, चुरादौ पट पुढेति दण्डके भाषार्थः, शौट्ट गर्ने । 'वंशाङ्कुरे करीरोऽस्त्री वृक्षभिद्वयोः पुमान् । करीरा चौरिकायां च दन्तमूले च दन्तिनाम्' इति मेदिनी । शीर्यत इति शरीरम् । 'शरीरं वर्ष्म विग्रहः' इत्यमरः । श्रचदित्वाच्छरीर इति पुंल्लिङ्गोऽपि । परीरमिति । पूर्यतेऽनेनेति विग्रहः । बाहुलकाद् हिडि गत्यनादरयोः, हिण्डते इतस्ततो गच्छतीति हिण्डीरः । 'डिडी रोsब्धिकफः फेनः' इत्यमरः । ' डिण्डीरोऽपि च हिण्डीरः' इति द्विरूपकोशः । किम र जम्बीर तूणीरादयोऽपि बाहुलकादेव बोध्या: । 'किर्मीरो नागरङ्गे च कर्बुरे राक्षसान्तरे' इति मेदिनी । 'जम्बीर: प्रस्थपुष्पे स्यात्तथा दन्तशठदुमे' इति च । वशेः । वश कान्तौ श्रस्मादीरन्कित्स्यात् । कित्त्वात्संप्रसारणादि । उशीरं वीरणमूलमुशीरोऽपि । 'मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यम्' इत्यमरः । कशः । कश इति सौत्रो धातुः, अस्मादीरन् तस्य मुडागमश्च । पृषोदरादित्वात्काश्मीरः । कृञः । डुकृञ् करणे, अस्मादीरन् धातोरन्त्यस्य उदादेशो रपरः । घसेः । अदने । अस्मादीरन कित्स्यात् । ' गमहन -' इत्युपधालोपे । कत्वं षत्वं च । 'क्षीरं दुग्धे च नीरे च' इति विश्वः । गभीर । गम्लृ गतौ । श्रस्मादीरन् भकारोऽन्तादेशः पक्षे नुमागमश्च निपात्यते । 'निम्नं गभीरं गम्भीरम्' इत्यमरः । विषा ।