SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता [२५१ मिथ्या । विपूर्वाधलीकं विप्रिय खेदश्च । 'वैलीकं पटलप्रान्ते' इत्यादि । ४६६ कृतृभ्यामीषन् । 'करीषोऽस्त्री शुष्कगोमये । तरीषः तरिता । ४६७ शृपभ्यां किच्च । शिरीषः पुरीषम् । ४६८ अर्जेज च। ऋजीपं पिष्टपचनम्। ४६६ अम्बरीषः । अयं निपात्यते । अबि शब्दे । 'अम्बरीषः पुमान्भ्राष्टम् । अमरस्तु 'कीबेऽम्बरीषं भ्राष्ट्रो ना'। ४७० कृशपकटिपटिशौटिभ्य ईरन् । दयश्च । एते कीकनन्ता निपात्यन्त इत्यर्थः । वलीकमिति । वल संवरणे इत्यस्मात् प्रत्ययः । कृतृभ्यामीषन् । कृ विक्षेपे, प्लवनतरणयोः तृ प्रसिद्धः, आभ्यामीषन्प्रत्यय इत्यर्थः । करीष इति । 'तत्तु शुष्कं करीषोऽस्त्री' इत्यमरः । शृपृभ्यां किच्च । शृ हिंसायाम् , पृ पालनपूरणयोः, स च किदित्यर्थः । शिरीषमिति । ऋत इद्धातोः' इति इत्त्वम् । पुरीषमिति । 'उदोष्ठयपूर्वस्य' इत्युत्वम् । अर्जेज च । अर्ज आजने, अस्मादीषन् , स च कित् , धातोः ऋजादेशश्च । ऋजीपमिति । 'ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम्' इत्यमरः । अम्बरीषः । निपातनप्रकारमेवाह अबि शब्दे इति । इदित्त्वान्नुमि अम्ब, अस्माद् ईषनि अरुडागमो निपात्यत इत्यर्थः । अमरकोशमाह क्लीवेऽम्बरीषमिति । चाभियुक्तैः प्रयुज्यते-'ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलाशामलकाः खलाश्च । नीचाः सदैव सविलासमलीकलना ये कालता कुटिलतां च न संत्यजन्ति' इति । इहालीकलग्नाः भाललग्नाः अप्रिये लग्ना इत्याद्यर्थो यथायोग्यं बोध्यः । 'व्यलोकमप्रियाकार्यवैलक्ष्येष्वपि पीडने । ना नागरे' इति मेदिनी । वल संवरणे, 'वलीकनीधे पटल प्रान्ते' इत्यमरः । वलतेर्मुडागमे वल्मीकम् । 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्' इत्यमरः । वहतेईद्धिश्च । वाहीको गौरश्वश्व। सुप्रपूर्वादिणस्तुट् च । सुप्रतीकः । शाम्यतेः शमीक ऋषिः । एवमन्येऽप्यूह्या इत्याशयेनाह इत्यादीति । कृत । कृ विक्षेपे, तृ प्लवनतरणयोः । शृपृ । शु हिंसायाम् , पृ पालनादौ, श्राभ्यामीषन कित्स्यात् । ऋत इद्धातोः' इति इत्वे रपरत्वम् । शिरीषों वृक्षभेदः । 'उदोष्ठयपूर्वस्य' इत्युत्वम् । 'गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविषौ स्त्रियाम्' इत्यमरः । अर्जेः । अर्ज षर्ज अर्जने, अस्मादीषन् कित्स्याद् धातोर्बजादेशश्च । अमरोक्तिमाह ऋजीपमिति । किं च उद्धृतरसः सोमलतायाः शेषोऽपि ऋजीषम् । एतच्च 'ऋजीषिणं वृषणंसश्चत श्रिये' 'आसत्यो यातु मघवाँऋजीषी' इत्यादिमन्त्रे भाष्ये स्पष्टम् । अयमिति । ईषन् प्रत्ययस्तस्य अरुडागमश्चेत्यर्थः । बोपालितोक्तिमाह अम्बरीषमिति । 'क्लीबेऽम्बरीषं भ्राष्ट्रे ना' इत्यमरः । 'अम्बरीषो रणे भ्राष्ट्रे क्लीब पुंसि नृपान्तरे । नरकस्य प्रभेदे च किशोरे भास्करेऽपि च । आम्रातकेऽनुपाते च' १ 'वलीकनीधे पटल प्रान्ते' इति क्वचित् पाठः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy