________________
२५० ]
सिद्धान्तकौमुदी। [ उणादिभ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका। पुणतेः, पुण्डरीकं वादि. त्रम् । पुण्डरीको व्याघ्रोऽग्निर्दिग्गजश्च । ४६१ ईषेः किदध्रखश्च । इषीका शलाका । ४६२ ऋजेश्च । ऋजीक उपहतः । ४६३ सर्तेर्नुम् च । सृणीका लाल।। ४६४ मृड: कीकककरणौ । मृडीको मृगः । मृडङ्कणः शिशुः । ४६५ अलीकादयश्च । कीकनन्ता निपात्यन्ते । 'अल भूषणादौ' अलीकं अभ्यासस्य नुगागमश्च निपात्यते । मर्मरीक इति । मृङ् प्राण यागे, अस्मादी. कनि धातोत्विमभ्यासस्य रुक च निपात्यते इत्यर्थः । एवं कर्करी केति डु कृञ् करणे इत्यस्माद् बोध्यः । पुणतेरिति । पुण कर्मणि शुभे, अस्मादीकन् , तस्य रुगागमः, धातोर्डगागमश्च निपायत इत्यर्थः । ईषेः किद ध्रवश्व । ईष गतौ, अस्मादीकन् , हखश्व धातोः, प्रत्ययस्य कित्त्वं च । इषीकेति । कित्त्वाद् गुणाभावः । अत्र यद्यपि धातोहखविधानसामर्थ्यादेव गुणाभावोऽपि सिध्यति, गुणे ईकारस्य इकारस्य चाविशेषात् , तथाप्युत्तरार्थमावश्यकमेव । ऋजेश्च । ऋज गतावित्यस्मादीकन् , स च किदित्यर्थः । ऋजीक इति । कित्त्वाद् गुणामावः । सर्तेर्नुम् च । स गतौ, अस्मादीकन् कित्स्याद्धातोमागमश्च । सृणीति । नुमि णत्वं, कित्त्वान्न गुणः। . मृडः कीकच्कङ्कणी । मृड सेचने, अस्मादीकन् , धातोः कीकच् कङ्कण इत्यादेशौ च पर्यायेण स्त इत्यर्थः, मृडेः की कीनः कङ्कणीन इति च रूपमिति केचिद्वदन्ति, तदसङ्गतमेव । किं त्वेतौ द्वावपि प्रत्ययौ । मृडीनः मृडङ्कण इति च रूपम् । अलीकानुमागमश्च । 'भ्रमरश्वञ्चरीकः स्याद्रोलम्बो मधुसूदनः । इन्दिन्दिरः पुष्पकीटो मधुदो मधुकेशयः' इति त्रिकाण्डशेषः । मर्मरीक इत्यादि । मृङ् प्राणत्यागे, डुकृञ् करणे, आभ्यामीकन् धातोदित्वम् अभ्यासस्य रुक् । 'कर्कर्यालुर्गलन्तिका' इत्यमरः । पुण कर्मणि शुभे, णस्य डः प्रत्ययस्य रुडागमश्च । 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । पुंसि व्याघेऽग्निदिङ्नागे कोशकारान्तरेऽपि च' इति मेदिनी । इषेः । ईष गतावस्मादीकन् हस्खश्च कित्त्वाद् गुणाभावः । ह्रखविधानसामर्थ्यादेव गुणाभावे सिद्धेऽप्युत्तरार्थ कित्त्वमित्याहुः । 'इषीका स्यादीषिकापि वानायुजवनायुजौ' इति द्विरूपकोशः । ऋजेः । ऋज गतौ । सर्तेः । स गतावस्मादीकन्स्याद्धातोर्नुमागमश्च । 'सृणिका स्यन्दिनी लाला' इत्यमरः । मृडः कीकच् । मृड सुखने । मृडः कीकन्नित्युज्ज्वलदत्तादिपाठः प्रामादिकः, मृडीकशब्दस्य चित्वरेणान्तोदात्तत्वात् । 'मृलीके अस्य सुमतौ स्याम' इत्यादौ चित्स्वरस्यैव दर्शनात् । अलीकाद। 'अलीकमप्रियेऽपि स्यादिव्यसत्ये नपुंसकम्' इति मेदिनी । 'अलीकमप्रिये प्रोक्कमलीक. ममृते दिवि' इति विश्वः । 'अलीकमप्रिये भाले वितथे' इति हेमचन्द्रः । तथा