________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता [२४६ वर्वरीकः कुटिलकेशः । ४६० फर्फरीकादयश्च । स्फुर स्फुरणे, अस्मादीकन् , धातोः फर्फरादेशः । फर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झरीकं शरीरम् । तित्तिडीको वृक्ष भेदः । 'चरेर्नुम् च' (गण १६६)। चञ्चरीको द्वे। शु हिंसायाम् , पृ पालनपूरणयोः, वृञ् वरणे, एभ्य ईकन्प्रत्ययः, धातोद्वित्वं तदभ्यासस्य रुगागमश्च । शर्शरीक इति । शृ इत्यस्य द्वित्वे उरदत्व रप. रत्वे हलादिशेषेण रेफनिवृत्तौ अनेन रुकि रूपम् । एवं पर्परीक इति । फर्फरीका दयश्च । निरातनमेवा सफर स्फुरण इति । अस्मादीकनित्यर्थः । दर्दरीकमिति । द विदारणे, अस्मादीकन् । धातोर्दरादेशः । यद्वा, धातोदित्वं रुक् चाभ्यासस्य निपात्यते । झरीकमिति । म वयोहानौ, अस्मादीकन् धातोरा. देशः । यद्वात्रापि धातोद्वित्वं रुक् चाभ्यापस्य निरायत इति व्याख्येयम् । तित्ति. डीकमिति । तिमधातोरीकनि धातोरन्यस्य डकारादेशे द्वित्वे अभ्यासस्य तुक् च निपात्यते । चश्चरीक इति । चर गतिभक्षणयोः, अस्माद् ईकनि धातोदित्वम् चुत्वे 'नुगतोऽनुनासिकान्तस्य' इति नुकि चङ्कण् । ङसिङसोस्तु चङ्कणः । धातोरिति । चङ्कणित्यस्य । शृ पृ । शू हिंसायाम् , पृ पालनादौ, वृञ् वरणे, एभ्य ईकन् एषां द्विवचनमभ्यासस्य रुगागमश्च । शर्शरीक इत्यादि । उरदत्वे रपरत्वम् । फर्फरीका । ईकन्नन्ता एते निपात्यन्ते। फर्फरादेश इति । एतच्चो. ज्ज्वलदत्तरीत्योक्तम् , वस्तुतस्तु धातोदित्वमुकारस्याकरः सलोपो रुक् चाभ्यासस्येति दशपाद्यो यदुक्तं तदेव : याय्यम् । चरेर्नुम् चेयुत्तरग्रन्थानुरोधेन द्वे रुक् चेत्याद्यनुवृत्ते
ाय्यत्वात् । किसलयमिति । 'नैतौशेवतुर्फरी पर्फरीका' इति मन्त्रस्य वेदभाष्ये तु त्रिफला विशरणे, पृ पालनपूरणयोः, पर्व पुर्व पूरणे, एषामन्यतमस्य विपातनमिदमित्याश्रित्य शत्रूणा विदारयितारौ स्तोतृणां पालको इष्टार्थस्य पूरयितारौ चेति व्याख्यातम् । दर्दरीकमिति । दृ विदारणे, अस्मादीकन्धातोर्ददरादेशः । झर्भरीकमिति । भृष् वयोहानौ अस्मादीकन्धातो:रादेशः । वस्तुतस्तु दर्दरीकर्मझरीकावपि पर्फरीकवद्धातोत्विं रुक् चाभ्यासस्येति व्याख्येयौ । उत्तरखण्डे ऋकारस्य गुणे रपरत्वम् । तित्तिडीक इति । तिमष्टीम आर्दीभावे मकारस्य डकारः अभ्यासस्य तुक् च । 'तिन्तिडी चिञ्चाम्लिका' इत्यमरे तु शब्दान्तरं बोध्यम् । तथा च 'तिन्तिडी त्वम्लिका चिच्चा तित्तिडीका कपिप्रिया' इति वाचस्पतिः। 'अम्लीका चाम्लिका चिच्चा तित्तिडीका च तिन्तिडा' इति चन्द्रः । 'अम्लीका चुक्रिका चुका साम्ला शुकाथ शुक्लिका । अम्लिका चिञ्चका चिचा तिन्तिडीका सुतित्तिडा' इति धन्वन्तरिनिघण्टुः । चरेरिति । चर गतिभक्षणयोरस्मादीकन् द्विवचनमभ्यासस्य