________________
२४८ ]
सिद्धान्तकौमुदी ।
[ उणादि
पातेरिश्वं नुम् च । 'क्लीबपुंसोः पिनाकः स्याच्छ्रल शङ्करधन्वनोः' । तड श्राघाते, तडाकः । ४५६ कषिदूषिभ्यामीकन् । कषीका पक्षिजातिः । दूषीका | 'दूषिका नेत्रयोर्मलम्' । ४५७ अनिहृषिभ्यां किच्च । अनीकम् । हृषीकम् । ४५८ चङ्कणः कङ्कणश्च । 'कण शब्दे' श्रस्माद्यङ्लुगन्तादी कन् धातोः कङ्कणादेशश्च । 'घण्टिकायां कङ्कणीका सैव प्रतिसरापि च । ४५६ शृपृवृञां द्वे रुक्चाभ्यासस्य । शर्शरीको हिंस्रः । पपैरीको दिवाकरः ।
9
बलाकेति । बल प्राणने । शलाकेति । शम गतौ । पिनाकादयश्च । एते आकप्रत्ययान्ता निपात्यन्त इत्यर्थः । निपातनप्रकारमाह पातेरिति । पा रक्षणे इत्यस्मादाक प्रत्ययः, धात्वन्त्यस्य इत्वं नुमागमश्च धातोर्निपात्यत इत्यर्थः । श्रमरकोशमाह क्लीवपुंसोः पिनाकः स्यादिति । कषिदूषिभ्यामीकन् । कष हिंसायाम्, दुष वैचित्ये श्राभ्यामीकन् दूषीकेति । रायन्तात्प्रत्ययः । ' दोषो गौ' इत्यूकार उपधायाः । अमरकोशस्थमाह । दूषिकेति । 'ः कीदृगत्रिमुनिलोचनदूषिकायाम्' इति मुरारिः । हृषिभ्यां किच्च । अन प्राणने, हृष तुष्टौ श्रभ्यामीकन्स्यात्स चकिदित्यर्थः । हृषीकमिति । कित्त्वान्न गुणः । 'हृषीकं विषयीन्द्रियम् इत्यमरः । चङ्कणः कङ्कणश्च । चङ्कण इति षष्ठी । करण निमीलने यङ्लुकि प्रत्ययलक्षणमाश्रित्य 'सन्यङोः' इति द्वित्वे, 'कुहोश्चुः' इत्यभ्यासककारस्य चकारे ' नुगतोऽनुनासिकान्तस्य' इति नुकि अनुस्वारे परसवर्णे च चङ्कण् इति धातुः । तस्येत्यर्थः, अस्मादीकन्प्रत्ययः, धातोः कङ्कणादेशश्चेत्यर्थः । कङ्कणीकेति । शृपृवृत्रां सौभाग्ये नाटकाङ्कयोः' इति मेदिनी । पिनाका । एते प्रत्यान्ता निपात्यन्ते । पा रक्षणे, 'पिनाकोsस्त्री रुद्रचापे पांशुवर्षत्रिशूलयो:' इति मेदिनी । अमरोक्तिमाह क्लीवपुंसोरिति । किं च पिष्ल संचूर्णने, षकारस्य णत्वं धातोर्यगागमः । 'पियाकोsal तिलकल्के हिङ्गबाहीकसिहके' इति इति मेदिनी । कषि । कष खषेति दण्डके हिंसार्थकः । दुष वैकृत्ये रायन्तः । 'दोषो गौ' इत्युपधाया ऊकारः । श्रमरोक्तिमाह दूषिकेति । किं च अकृतेऽपि ईकनि दूषयतेः 'अच इ:' इति इप्रत्यये दूषिः । 'कृदिकारात् -' इति ङीषि दूषी । उभाभ्यामपि स्वार्थे कनि दूषिका हखमध्येव । 'केऽणः' इति ङीष ेऽपि हस्वादेशात् । 'पिचराडी दूषिका दूषी पिचाटं च दृशोर्मलम्' इति विक्रमादित्यकोशः । 'दूषिका तूलिकायां च मले स्याल्लोचनस्य च' इति मेदिनी । अनिषि । न प्राणने, हृष तुष्टौ, श्राभ्यामीकन्स्यात् स च कित् । 'अनीकोऽस्त्री रणे सैन्येऽपि' इति मेदिनी । 'हृषीकं विषयीन्द्रियम्' इत्यमरः । चङ्कणः । ऋणधातोर्यङ्लुकि प्रत्ययलक्षणन्यायेन 'सन्यो:' इति द्वित्वे 'कुहोश्चुः' इत्यभ्यासस्य
"