________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २४७ किस्स्यात् । किष्वान्नकारलोपः । मन्थाः मन्थानौ मन्थानः । ४५२ पतस्थ च । पन्थाः पन्थानौ । ४५३ खजेराकः । खजाकः पक्षी । ४५४ बलाकादयश्च । बलाका । शलाका । पताका । ४५५ पिनाकादयश्च । शब्दे उपपदे ष्टाधातोरिनिप्रत्ययः, स च कित् । परमेष्ठीति । इनेः कित्त्वादातो लोपः, 'हलदन्तात्सप्तम्याः -' इति परमे इत्यत्र सप्तम्या अलुक् । मन्थः । मन्थ विलोडने, अस्मादिनिप्रत्ययः किदित्यर्थः । कित्त्वाद्धातुनकारस्य लोपः । मथिन्शब्दः । मन्था इति । 'पथिमथि -' इत्यात्त्वम् । 'इतोऽत्सर्वनामस्थाने' इतीकारस्यात्वम् । 'थो न्थः' इति न्थादेशः । पतस्थ च । पत्लृ गतौ इत्यस्मादिनिः थकारश्चान्तादेश इत्यर्थः । पन्था इति । पथिन्शब्दः पूर्ववत्प्रक्रिया । खजेराकः । खज मन्थे, श्रस्मादाकप्रत्य इत्यर्थः । 'दर्विः कम्बिः खजाका च' इत्यमरः । बलाकादयश्च । एते श्राकप्रत्ययान्ता निपात्यन्ते । अनेनैव सिद्धे 'खजेराक' इति पूर्वसूत्रं प्रपञ्चार्थम् ।
?
पूर्वादस्मादिनिः स च णित। णित्त्वाद् 'तो युक् -' इति युक् । प्रस्थायी गन्तुकामः । परमे । परमशब्दे उपपदे तिष्ठतेरिनिः कित्स्यात् । कित्त्वादातो लोपः । ' हलदन्तात् - ' इत्यलुक्। 'परमेष्ठी पितामहः' इत्यमरः । मन्थः । मन्थ विलोडने । मन्था इति । ‘पथिमथि—’ इत्यात्वम्। ‘इतोऽत्सर्वनामस्थाने' | 'मन्था मन्थनदण्डे च वज्रे चापेऽपि च स्मृतः' । पतः । पत्लु गतावित्यस्मादिनिः स्थश्चान्तादेशः । पथे गतावित्यस्मा - त्पचाद्यचि आकारान्तोऽप्यस्ति । ' वाटः पथश्च मार्गश्च' इति सुभूतिचन्द्रः । ' त्वचि त्वचः किरोऽपि स्यात्किरौ प्रोक्तः पथः पथि' इति द्विरूपेषु विश्वः । इह भवो देवाः क्षयन्त्यस्मिन्निति विग्रहे 'अन्येभ्योऽपि दृश्यते' इति डः । 'ऋभुक्षः स्वर्गवज्रयोः' इति विश्वः । ततो मत्वर्थीयेनिः । ऋभुक्षिन्निति नान्तं प्रातिपदिकम् । 'पथिमथि -' इत्यावे 'इतोऽत् -' इत्यत्वे च ऋभुक्षा इन्द्रः, ऋभुक्षाणौ ऋभुक्षाण इत्युज्ज्वलदत्तः ! दशपायां तु 'अर्ते: भुक्षिनक्' इति सूत्रमुपन्यस्य तस्य ऋभुक्षिन्नित्युदाहृतम् । 'ऋभुक्षिणमिन्द्रमाहुव ऊतये ' इति मन्त्रस्य वेदभाष्ये तत्सूत्रमुदाहृतम् । अत्रायं विवेकः - इनिप्रत्ययान्ता इति मते अन्तोदात्तत्वं न्याय्यं प्रत्ययस्वरेण इनेरिकारस्योदात्तत्वात् । श्रवप्रहाभावो बाहुलकात् । द्वितीयमते त्ववप्रहाभावो न्याय्यः । परन्तु प्रत्ययस्वरेणोकारस्योदात्ततया भुक्षिनक्प्रत्ययान्तस्य मध्योदात्तत्वे प्रसक्के बाहुलकादन्तोदात्तः स्वीकर्तव्य इति । खजेः । खज मन्थे । बलाका । बल प्राणने, शल गतौ, पत्लु एते श्राकप्रत्ययान्ता निपात्यन्ते । 'बलाका बकपङ्क्तिः स्याद्वलाका बिसकण्ठिका | बलाका कामुक प्रोक्ता बलाकश्च बको मतः' इति विश्वशाश्वतौ । ' शलाकाञ्जनयष्टिका । पताका वैजयन्त्यां च सौभाग्येऽङ्के ध्वजेऽपि च' इति विश्वः । पताका वैजयन्त्यां च