SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुदी। [ उणादि. दिह ककारस्य नेत्वम् । शर्करा । ४४४ पुषः कित । पुष्करम् । ४४५ कलंश्च । पुष्कलम् । ४४६ गमेरिनिः । गमिष्यतीति गमी । ४४७ आङि णित् । आगामी । ४४८ भुवश्च । भावी । ४४६ प्रे स्थः। प्रस्थायी । ४५० परमे कित् । परमेष्ठी । ४५१ मन्थः । मन्थतेरिनिः शर्करेति । करनि गुणे रूपम् । नन्वेतदयुक्तं करनः ककारस्य 'लशक्कतद्धिते' इतीत्संज्ञा दुर्वारा । न चोच्चारणसामर्थ्यात्काम्यजादाविव न लोपः, लोपाभावे च फलाभावादित्संज्ञापि नेति वाच्यम् , क्छिति चेति निषेधसत्त्वेन गुणनिषेधसंपादकत्वेन साफल्यसंभवात् । तस्माद् इत्संज्ञा दुर्वारवेत्यत्राह उत्तरसूत्र इति । उत्तरत्र पुषः किदिति पठ्यते । तत्र करनेवानुवर्तते । करनः कित्त्वं विधीयते । यद्यस्य ककारस्येत्त्वं स्यात, तर्हि कित्त्वे स्वतः सिद्ध किमनेन कित्त्वविधानेन । एवं चात्रे. संज्ञा न भवतीत्यर्थः । पुषः कित् । पुष्करमिति । कित्त्वान्न लघूपधगुणः । कलंश्च । पुषः किदित्यनुवर्तते । कलन्प्रत्ययः । कित्स्यात् । गमेरिनिः । गम्लु गतावित्यस्मादिनिप्रययः । कस्मिन्नथें इत्याकाङ्क्षायामाह गमिष्यतीति । उत्तरकृदन्ते 'भविष्यति गम्यादयः' इति सूत्रं व्याख्यास्यते मूलकृता । अस्माभिश्चोणादिनिरूपणात्प्रागेव निरूपितम् । तेन सूत्रेण भविष्यतीति नियमनादत्र भविष्यतीति लब्धम् । आङि णित् । आङि उपपदे गर्भविष्यति जायमान इनिप्रत्यय णिदित्यर्थः । णित्त्वादुपधावृद्धिः । भुवश्च । भू सत्तायाम् अस्मादिनिप्रत्ययः, स च णित्स्यादित्यर्थः । भावीति । णित्त्वाद् 'अचो णिति' इति वृद्धिः । अयमपि भविष्यदर्थ एव, गम्यादय इत्युक्त्वात् । प्रे स्थः । प्रपूर्वात् ष्ठा गतिनिवृत्तावित्यस्मादिनि प्रत्ययः, म च णित् । प्रस्थायीति । इनेर्णित्त्वाद् 'आतो युकचिरकृतोः' इति युक्॥ युकः कित्त्वेऽपि अजादित्वाभावान्नाकारलोपः । परमे कित् । परमधन्वयवासकः' इति धन्वन्तरिनिघण्टुः । 'कृशानुः पावकोऽनलः' इत्यमरः । श्रः। शु हिंसायाम् । 'शर्करा खण्डविकृती उपलाशर्करांशयोः । शर्करान्वितदेशे च रुग्भेदे शकलेऽपि च' इति मेदिती । पुषः। पुष पुष्टी, अस्मास्करन्स्यात्स च कित् । 'पुष्करं खेऽम्बुपद्मयोः । तूर्यवक्त्रे खड्गफले हस्तिहस्ताप्रकाण्डयोः । कुष्टौषधिद्वीपतीर्थभेदयोश्च नपुंसकम् । ना रागनागविहगनृपभेदेषु वारुणौ' इति मेदिनी। कलश्च । पुष्यतेः कलन् स च कित् । 'पुष्कलस्तु पूर्णे श्रेष्ठे' इति हेमचन्द्रः । गमेः । गम्ल गतो। 'भविष्यति गम्यादयः' इत्याशयेनाह गमिष्यतीति । आगामीति । इनिप्रत्ययस्य णित्त्वादुपधावृद्धिः। श्रागमिष्यतीत्यर्थः। भुवश्च । भू सत्तायाम । अस्मादिनिः स च णित्स्यात् । भविष्यतीति भावी । प्रे स्थः । ष्ठा गतिनिवत्ती.
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy