SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४५ द्वादशभ्यः क्रमारस्युः । भर्तेः कनिच् , यण् । 'बमुष्टिः करो रनिः सोऽरनिः प्रसृताङ्गुलिः' । तनोतेर्यतुच् तन्यतुर्वायू रात्रिश्च | अओरलिच् अञ्जलिः । वरिष्ठुच् वनिष्ठुः स्थविरान्त्रम् । अओरिष्ठच अञ्जिष्ठो भानुः| अर्पयतेरिसन् अर्पिसोऽप्रमालम् । मदेः स्यन् , मत्स्यः । अतेरिथिन् , अतिथिः । अङ्गेरुलिः, अङ्गलिः । कौतेः प्रसः, कवसः । अच इत्येके । कवचम् । यौतेरासः, यवासो दुरालभा ( कृशेरानुक् , कृशानुः । ४४३ श्रः करन् । उत्तरसूत्रे किग्रहणा. तनु विस्तारे, अञ्जू व्यक्त्यादौ, वनु याचने, अञ्जू व्यक्त्यादौ, ऋ गतौ ण्यन्तः, मदी हर्षे, अत सातत्यगमने अगिवगिमगीति दण्डकपठितः अगिर्गत्यर्थः, कु शब्दे, यु मिश्रणे, कृश तनूकरणे, एषां द्वन्द्वात्पञ्चमी । कनिच् , यतुच्, अलिच् , इष्ठुच्, इष्ठच्, इसन्, स्यन्, इथिन्, उलि, अस, बास, श्रानुक्, एषां द्वन्द्वात्प्रथमाबहुवचनम् । पूर्वोक्तेभ्यो द्वादशभ्यो धातुभ्य एते द्वादश प्रत्ययाः मात्स्युः । अर्तेः कनिजिति । ककारचकारावितो, कित्त्वान्न गुणः, किंतु यणादेशे रनिरिति रूपम् । रनिशब्दार्थमाह बद्धमुष्टिः करो रनिरिति । 'हस्तो मुष्टया तु बद्धया, स रनिः स्यादरनिस्तु' इत्यमरः । अरनिरिति । न रनिः अरनिरिति नसमासे साधुः । शेषं स्पष्टम् । श्रः करन् । शु हिंसायामस्मात्करन्प्रत्यय इत्यर्थः । अजूः स एव, ऋ गतौ ण्यन्तः, मदी हर्षे, अत सातत्यगमने, अगि गत्यर्थः, कु शब्दे, यु मिश्रणे, कृश तनूकरणे । प्रसङ्गादाह अरनिरिति । न रनिः अरनिरिति नसमासः । प्रसृताङ्गलिः स हस्तः अरनिरित्यर्थः । दशपादीवृत्तौ तु कनिजित्यत्र ककारमपठित्वा अर्तेरनिचमकितं विधाय अरनिः साधितः । उज्ज्वलदत्तानुसारेणाह वाय रात्रिश्चेति । तन्यतुः शब्दो मेघः अशनिश्चेत्यपि बोध्यम् । 'आविष्कृणोमि तन्यतुर्न वृष्टिम्' इति मन्त्रे तन्यतुर्गर्जितमिति, 'सृजा दृष्टिं न तन्यतुः' इति मन्त्रे तन्यतुर्मेघ इति 'उतस्मास्य तन्यतोरिव द्योः' इति मन्त्रे 'दिवश्चित्रं न तन्यतम्' इति मन्त्रे च तन्यतुरशनिरिति वेदभाष्ये व्याख्यातत्वात् । 'अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि च' इति मेदिनी। स्थविरान्त्रमिति । 'वनिष्ठोर्हृदयादधि' इति मन्त्रस्य भाष्ये तथोक्तत्वात् । अञ्जिष्ठ इति । केचिदरिष्णुचमिच्छन्ति तेषामञ्जिष्णुरुदाहरणम् । अर्पिस इति । 'अर्तिह्री-' इत्यादिना पुक् । 'णेरनिटि' इति णिलोपः । मदेरिति । 'मत्स्यो मीनेऽथ पृभूम्नि देशे' इति मेदिनी । 'अतिथिः कुशपुत्रे स्यात्पुमानागन्तुके त्रिषु' इति च । 'अलिः करशाखायां कर्णिकायां गजस्य च' इति च । कवसः सन्नाहः कङ्कटजातिश्च । अच इति । 'कवचो गर्दभाण्डे च संनाहे गर्पटेऽपि च' इति मेदिनी । यौतेरिति । 'दुरालभा कटुस्पर्शा यासो
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy