________________
सिद्धान्तकौमुदी ।
अथ उणादिषु चतुर्थः पादः ।
४४१ वातप्रमीः । वातशब्द उपपदे माधातोरीप्रत्ययः, स च कित् । वातप्रमीः । भयं स्त्रीपुंसयोः । ४४२ ऋतन्यञ्जिवन्यज्ञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निज्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः ।
२४४ ]
[ उणादि
ईप्रत्ययः कित्स्याद् धातोर्द्वित्वं च । ययीरिति । कित्त्वाद 'आतो लोप इटि च' इत्यालोपः । लक्षेर्मुद् च । लक्ष दर्शनाङ्कनयोः, श्रस्मादीप्रत्ययः स्यात्, सच कित् तस्य मुडागमश्च । श्रयं धातुश्चुरादिण्यन्तः अस्मादीप्रत्यय णिलोपः । ' लक्ष्मीः पद्मालया पद्मा' इत्यमरः । इत्युणादिषु तृतीयः पादः ।
?
श्रथ चतुर्थः पादः । वातप्रमीः । इत्थं निपात्यत इत्यर्थः । निपातनमेवाह वातशब्दे उपपदे इति । माधातोरिति । मा माने इत्यस्मादिति भावः । स च किदिति । कित्त्वाद् 'तो लोपः' इत्यालोपः । ' वातप्रमीवतमृगः इत्यमरः । अयमिति । वातप्रमीशब्द इत्यर्थः । ऋतन्यञ्जिवन्यञ्जि । ऋऋ गतौ,
यापोः । या प्रापणे, पा पाने, आभ्याभीः कित्स्याद् द्वित्वं च धातोः । लक्षेः । लक्ष दर्शनानयोश्चुरादिरयन्तः । श्रस्मादीप्रत्ययः स्यात्तस्य मुडागमो णिलोपश्च । 'लक्ष्मीः पद्मा विभूतिश्च' । 'कृदिकारात् -' इति ङोषि लक्ष्मी इत्यपि भवतीति रक्षितः । 'लक्ष्मी: संपत्तिशोभयोः । ऋद्ध्योषधौ च पद्मायाम्' इति मेदिनी । इत्यादिषु तृतीयः पादः ।
माधातोरिति । मा माने, कित्त्वाद् 'श्रतो धातो:' इत्यालोपः । ' वातप्रमीवतमृगः' इत्यमरः । श्रयमिति । 'द्विचतुः षट्पदोरगा:' इत्यमरेण चतुष्पाद्वाचिनामुभयलिङ्ग तोक्तेः । सुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य द्विलिङ्गतोक्नेश्वेति भावः । तत्र ‘कृदिकारात् -' इति पाक्षिको ङीष् कैश्चिदिष्यते । न च हखादेव 'कृदिकारात् -' इति ङीष् भवति, न तु दीर्घादिति शङ्खधम् । वर्णनिर्देशे कारप्रत्ययस्य विधानेन दीर्घादपि 'कृदिकारात् -' इति ङीषः संभवात् । श्रतएव वातप्रमीश्रीलक्ष्मीति पक्षे ब्यन्ताः सुसाधव इति रक्षितः । एतश्च दुर्घटप्रन्थे स्पष्टम् । 'आशीराश्य हिदंष्ट्राय लक्ष्मीर्लक्ष्मी हरिस्त्रियाम्' इति द्विरूपकोशः । श्रतएव 'श्राशीविषो विषधरः' इत्यमरकोशः संगच्छते । श्रश भोजन इत्यस्माद् 'इणजादिभ्यः' इति इण्प्रत्यये उपधावृद्धौ 'कृदिकारात् -' इति ङीषः स्वीकाराद् श्रशीति च ' श्रशीमिव कलामिन्दोः' इति राजशेखरः । ‘आशीर्हिताशंसा हिदंष्ट्रयो:' इति सान्तेऽमरात्सान्तो ऽप्याशीः शब्दोऽस्तीत्यन्यदेतत् । ऋतनि । ऋ गतौ, तनु विस्तारे, अज्जू व्यक्तत्यादौ, वनु याचने,