________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४३ पत्तनम् । ४३१ दृदलिभ्यां भः। दर्भः। 'दल्भः स्यादृषिचश्योः' । ४३२ अर्तिगृभ्यां भन् । अर्भः । गर्भः । ४३३ इणः कित् । इभः। ४३४ असि. सञ्जिभ्यां क्थिन् । अस्थि । सक्थि । ४३५ प्लुषिकुषिशुषिभ्यः क्सिः। प्लुधिर्वह्निः। कुतिः। शुक्षितिः। ४३६ अशेर्नित् । अति ।४३७ इषेः क्सुः । इन्तुः। ४३८ अवितृस्तृतन्त्रिभ्य ईः। 'भवीनारी रजस्वला' । तरीनौः । खरीधूमः । तन्त्रीर्वीणादेर्गुणः । ४३६ यापोः किद् द्वे च । ययीरश्वः । 'पपी: स्यात्सोमसूर्ययोः' । ४४० लक्षेर्मुद् च । जमीः।
इस्युणादिषु तृतीयः पादः।
मृतयो भर्म वेतनम्' 'पत्तनं पुटभेदनम्' इति चामरः। दृदलिभ्यां भः। बु विदारणे, दल विकसने, आभ्या भप्रत्यय इत्यर्थः। दर्भ इति । काकासुरस्याक्षि दृणातीति दर्भः । कर्तरि भप्रत्ययः, गुणः। अतिगृभ्यां भन् । ऋ गतौ जुहोत्यादिः, गृ निगरणे, आम्यां भन्नित्यर्थः । अर्भ इति । गुणः । अर्भक इति तु संज्ञायां कनि बोध्यम् । इणः कित् । इण गतौ, अस्माद्भन् कित्स्यात् । इभ इति। कित्त्वान्न गुणः । 'इभः स्तम्बरमः पनी' इत्यमरः। असिसञ्जिभ्यां क्थिन् । असु क्षेपणे, षञ्ज सङ्गे, प्राभ्यां क्थिन्स्यात् । सक्थि इति । कित्त्वान्नलोपः कुत्वम् । प्लुषिकुषिशुषिभ्यः क्सिः । प्लुष दाहे, कुष निष्कर्षे, शुष शोषणे, एभ्यः क्सिः स्यात् । प्लुक्षिरित्यादौ कित्वाद् गुणाभावे 'षढोः-' इति कः । अशेनित । अश व्याप्ती, अस्माक्सिन् नित्स्यात् । अतीति । व्रश्चेति षः, कत्वं षत्वम् । इषेः क्सुः । इष इच्छायाम्', अस्मात्क्सुः स्यादित्यर्थः । अवितृस्त । अव रक्षणादौ, तृ प्लवनतरणयोः, स्तृञ् आच्छादने, तत्रि कुटुम्बधारणे, एभ्य ईप्रत्यय इत्यर्थः । अवीरिति । रजस्वलेत्यर्थः। यापोः किवे च । या प्रापणे, पा पाने, श्राभ्यां मरः । दृदलि । दृ विदारणे, दल विकसने । अतिगृ । ऋ गती, इयर्तीति अर्भः शिशुः । संज्ञायां कनि अर्भकः । 'गर्भो भ्रणेऽर्भके कुक्षौ सन्धौ पनसकण्टके' इति मेदिनी । इणः । इण् गतौ, अस्माद्भन् कित्स्यात्। 'इभः स्तम्बेरमः पद्मी' इत्यमरः। असि । असु क्षेपणे, षञ्ज सङ्गे । 'कोकसं कुल्यमस्थि च' इत्यमरः । 'सक्थि क्लीबे पुमानूरुः' इति च । प्लुषि । प्लुष दाहे, कुष निष्कर्षे, शुष शोषणे । अशेः । अशू व्याप्तौ, अस्मात् क्सिन्नित्स्यात् । अक्षि नयनम् । इषः । इष इच्छायाम् , इक्षुः, 'रसाल इक्षुः' इत्यमरः । अवि । अव रक्षणादौ, तृ अवनतरणयोः, स्तृञ् आच्छादने, तत्रि कुटुम्बधारणे, चुरादिण्यन्तः । तरीरिति । 'स्त्रियां नौस्तरणिस्तरिः' इत्यमरः।