________________
२४२] सिद्धान्तकौमुदी। [ उणादिभुवनम् । विशतेः प्रत्ययादेरित्त्वम् । विशिपं मन्दिरम् । वलतेः संप्रसारणम् । 'उलप कोमलं तृणम्' । ४२६ वृतेस्तिकन् । वर्तिका वर्तिका । ४२७ कृतिभिदिलतिभ्यः कित् । कृत्तिका । भित्तिका भित्तिः । नत्तिका गोधा । ४२८ इष्यशिभ्यां तकन् । इष्टका । अष्टका। ४२६ इणस्तशन्तशसुनौ। एतशो ब्राह्मणः । स एव एतशाः । ४३० वीपतिभ्यां तनन् । वी गत्यादी, वेतनम् । प्रत्यस्य तुडागमश्च निपात्यते इत्यर्थः । व्रश्चेति षत्वे ष्टुत्वे च रूपं सिध्यति । विशिपमित्यत्राह विशतेरिति । वलतेरिति । वल संवरणे इत्यस्मादित्यर्थः । संप्रसारणमिति । श्रादेर्वकारस्येत्यादिः । 'विष्टपं भुवनं जगत्' इत्यमरे विष्टपशब्दो वकारादिरेव पठ्यते, सूत्रं त्वन्यमतानुसारेण । 'गुल्मिन्युलप इत्यपि' इत्यमरः । वृतेस्तिकन् । वृतु वर्तने, अस्मात् तिकन्नित्यर्थः । वत्तिकेति । लघूपधगुणः । वर्तिकेति । हलो यमामिति यमस्तकारस्य लोपविकल्पः। कृतिभिदिलतिभ्यः । कृती छेदने, भिदिर विदारणे, लतिः सौत्रः, एभ्यस्तिकन्प्रत्ययः स्यात् , स च किदि. त्यर्थः। कृत्तिकेति । कित्त्वान्न लघूपधगुणः । इष्यशिभ्यां तकन् । इष इच्छायाम् , अशू व्याप्तौ, आभ्यां तकन्प्रत्ययः, स च किदित्यर्थः । इष्टकेति । कित्त्वान्न गुणः । प्रत्ययस्थादिति इत्वं तु 'इष्टकेषीकामालानां चितूतलभारिषु' इति निर्देशान्न भवति । अष्टकेति । व्रश्वादिना षत्वं ष्टुत्वम् । 'अष्टका पितृदेवत्ये' इत्युक्त्वान्नेत्वम् । इणस्तशन्तशसुनौ । इण गतावित्यस्मात् तशन् तशसुन् इति प्रत्ययौ स्त इत्यर्थः । एतश इति । गुणो नकार इत् । एतशा इति । तशसुन्प्रत्यये उकारनकारयो. रित्संज्ञकत्वात् सान्तोऽयं शब्दः । अत्वसन्तस्येति दीर्घः । तशसुनि उकार उच्चार. णार्थः । नकारो नित्खरार्थः । वीपतिभ्यां तनन् । वी गतिव्याप्तिप्रजनकान्त्यसन. खादनेषु, पत्ल गतौ, आभ्यां तनन्प्रत्यय इत्यर्थः । वेतनमिति । गुणः । 'भृत्याअन्ये तु सूत्रे विष्टपेति दन्यौष्ठयादिमेव पठन्ति । युक्तं चैतत् । 'यत्र बनस्य विष्टपम्' इत्यादौ तथा दर्शनात् । अमरकोशेऽपि 'विष्टपं भुवनं जगत्' इति प्रचुरपाठाच्च । वलतेः । वल वल्ल संवरणे संचरणे च, 'उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे' इति मेदिनी । वृतेः । वृतु वर्तने । कृतिभिदि । कृती छेदने, भिदिर् विदारणे, लतिः सौत्रो धातुः । इष्यशि । इष इच्छायाम् , अशू व्याप्ती, आभ्यां तकन् कित्स्यात् । इष्टकेति । 'इष्टकेषीकामालानाम्-' इति निर्देशात् 'प्रत्ययस्थात्-' इति नेत्वम् । केचित्तु प्रत्ययस्थादितीत्वमिह न भवत्यनित्यत्वात् । तज्ज्ञापकं तु 'मृदस्तिकन्' इति इकारोच्चारणमित्याहुः । इणस्त । एतशा इति । 'अत्वसन्तस्य-' इति दीर्घः । एतशसौ । एतशसः । वीपति । पत्लु गतौ । 'पत्तनं पुटभेदनम्' इति पुरीपर्यायेष्व