SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 3 प्रकरणम् ६७ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२४१ दीडो नुट् च । दीनारः सुवर्णाभरणम् । ४२१ सतेरपः षुक्च । सर्षपः । ४२२ उषिकुटिदलिकचिखजिभ्यः कपन् । 'उषपो वह्विसूर्ययोः' । कुटपो मानभाण्डम् । दलपः प्रहरणम् । कचपं शाकपत्रम् । खजपं घृतम् । ४२३ कणेः संप्रसारणं च । कुएपम् । ४२४ कपश्चाक्रवर्मणस्य । खरे भेदः । ४२५ विटपपिष्टपविशिपोलपाः । चत्वारोऽमी कपन्प्रत्ययान्ताः । विट शब्दे, विटपः । विशतेरादेः पः, प्रत्ययस्य तुद षस्वम्, पिष्टपम्. कासार इति । कास शब्दकुत्सायां भ्वादिः, अस्मादारनि रूपम् । सहार इति । षह मर्षणे। 'कासारः सरसी सरः' इत्यमरः । दीडो नुट् च । दीङ् क्षये, अस्मादारन् , तस्य नुडागमश्च । किदित्यनुवर्तत एव । तस्मान्न गुणः । दीनार इति । 'दीनारेऽपि च निष्कोऽस्त्री' इत्यमरः । सर्तेरपः षुक् च । स गतौ, अस्मादपप्रत्ययः षुक् च धातोरागमः । सर्षप इति । प्रत्यये धातोर्गुणः । 'वन मुद्ने सर्षपे तु' इत्यमरः । उषिकुटिदलि । उष दाहे, कुट कौटिल्ये, दल विदारणे, कव बन्धने, खज मन्थे, एभ्यः कपन्प्रत्ययः स्यात् । कनावितौ । उपप इति । कित्त्वान्न लघूपधगुणः । नित्त्वं स्वरार्थम् ।। शेषं स्पष्टम् । कणेः संप्रसारणं च । कण शब्दे अस्मात्कपन् , धातुवकारस्य संप्रसारणं चेत्यर्थः । कुणपमिति । वकारस्य संप्रसारणे उकारे संप्रसारणाचेत्युकाराकारयोः पूर्वरूपे रूपम् । 'कुणपः शवमस्त्रियाम्' इत्यमरः। कप. श्चाक्रवर्मणस्य । कणेः संप्रसारणमित्यनुवर्तते । चाकवर्मणस्य मते कणधातोः कपप्रत्ययः संप्रसारणं चेत्यर्थः । अत्रापि कुणपमित्येव रूपम् । ननु रूपे विशेषामावास्किमर्थमयमित्यत आह स्वरे भेद इति। कपनि नित्स्वरः। अत्र तु नेति भेद इति भावः । विटपपिष्टप । एत निपात्यन्त इत्यर्थः । निपातनप्रकारमेवाह विट शब्द इति । अस्मात्कपन्प्रत्यय इति शेषः। कित्त्वान्न गुणः । पिष्टपे आह विशते. रिति । विश प्रवेशने इत्यस्मात् कपन्प्रत्ययः । कित्त्वान गुणः, आदेर्वकारस्य पकारः, एते निपात्यन्ते । तुष तुष्टौ पारन् । 'तुषारस्तुहिनं हिमम्' इत्यमरः । कास शब्दकुत्सायाम् । 'कासारः सरसी सरः' इत्यमरः । सहार इति । षह मर्षणे। दीडो : दीङ्क्षये, अस्मादारन् , तस्य नुडागमश्च । सर्तेः। स गती अस्मादपः स्थाद्धातोः षुगागमश्च । उषि । उष दाहे, कुट कौटिल्ये, दल विदारणे, कच बन्धने, खज मन्थे। कणेः। क्वण शब्दे । अस्मात्कपन् धातुवकारस्य संप्रसारणं च । 'कुणपः पूतिगन्धे......शवेऽपि च' इति मेदिनी । 'कुणपः शवमस्त्रियाम्' इत्यमरः। विटप । 'विटपो न स्त्रियां- स्तम्बशाखाविस्तारपल्लवे । विटाधिपे ना' इति मेदिनी। विशतेरिति । विश प्रवेशने । आदेःप इति । एतच उज्ज्वलदत्तरीयोक्तम् ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy