________________
२४०]
सिद्धान्तकौमुदी। [उणादिभारः। मदारो वराहः । 'मन्दारः पारिजातकः' । ४१५ गडेः कड च । कडारः । ४१६ शृङ्गारभृङ्गारौ। शृभृभ्यामारन्नुम्गुग्घ्रस्व श्च । शृङ्गारो रसः । 'भृकारः कनकालुका'। ४१७ कअिमृजिभ्यां चित् । कञ्जिः सौत्रः। कारो मयूरः । मार्जारः । ४१८ कमेः किदुच्चोपधायाः। चिदिस्यनुवृत्तेरन्तोदात्तः । कुमारः । ४१६ तुषारादयश्च । तुषारः । कासारः। सहार आम्र भेदः । ४२० स्तुतिमोक्षादौ, मदी हर्षे, एम्य पारन्स्यात् । अङ्गार इत्यादि । गडेः कड च । गड सेचने, अस्मादारन्प्रत्यय: स्यात् , कडादेशश्चेत्यर्थः । 'कडारः कपिलः पित्र पिशझौ कटुपिङ्गलौ' इत्यमरः । शृङ्गारभृङ्गारौ । एते निमत्येते। निपातनप्रकारमेवाह शृभृजभ्यामिति । शू हिंसायाम् , डु मृञ् धारणपोषणयोः, भाभ्यामारन्प्रत्ययः, धातोर्नुम् हवः, गुगागमश्च निपात्यत इत्यर्थः । शृङ्गारो रस इति । 'शृङ्गारः शुचिरुज्ज्वलः' इत्यमरः । 'भृङ्गारः कनकालुका' इति च । कञ्जिमृजिभ्यां चित् । कजधातोर्धातुपाठेऽदर्शनादाह सौत्र इति । मृजू शुद्धौ । प्राभ्यामारन्प्रत्ययः, सच चिदित्यर्थः । मार्जार इति । मृद्धिः । 'श्रोतुर्बिडालो मार्जारः' इत्यमरः । कमेः किदुच्चोपधायाः। कमु कान्ती, अस्मादारन्प्रत्ययः, स च कित् , उपधाया अकारस्य उकारश्चेत्यर्थः । कुमार इति । कित्त्वान्न गुणः। तुषारादयश्च । एते निपात्यन्ते । तुषार इति । तुष तुष्टौ, अस्मादारन् कित् , कित्त्वान्न लघूपधगुणः । 'पारिभद्रे तु मन्दारुर्मन्दारः पारिजातकः' इति शब्दार्णवः ।गडेः। गडि वदनैकदेशे, गड सेचने, अस्मादारन्प्रत्ययः स्यात्कडादेशश्च । 'कडारः कपिले दासे' इति मेदिनी। 'कडारः कपिलः पिहः' इत्यमरः। शृङ्गारः शू हिंसायाम् , डुभृञ् धारणपोषणयोः, एतौ निपात्यते। आभ्यामारन्नुम् गुग् ह्रखश्च । 'शृङ्गारः सुरते नाटये रसे च गजमण्डने । नपुंसक लवशेऽपि नागसंभवचूर्णयोः इति मेदिनी । भृङ्गारी झिल्लिकार्या स्यात्कनकालो पुनः पुमान्' इति च । कञ्जिः । मृजू शुद्धौ, चित्वादारन्प्रत्यय अन्तोदात्तः । 'कारो जठरे सूर्ये विरची वारणे मुनौ' इति विश्वमेदिन्यो । 'मार्जार श्रोती खट्वाङ्गे' इति च । 'श्रोतुर्बिडालो मार्जारः' इत्यमरः । कमेः। कमु कान्ती, अस्मादारन्कित्स्यात् । 'कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । बालके वरुणाद्रौ ना न द्वयोर्जात्यकावने । कुमारी शैलतनयावनकाल्योनदीभिदि । सहापराजिताकन्या जम्बुद्वीपेषु च स्त्रियाम्' इति मेदिनी । विश्वप्रकाशे तु 'कुमारी रामतरणी' इति पाठः। रामतरणी लताविशेषः । सहेति प्रसिद्धा । 'तरणी रामतरणी कर्णिका चारुकेसरा। सहा कुमारी गन्धाब्या' इति धन्वन्तरिनिघण्टुः । 'जम्बू ... कन्याः कुमार्योऽयाश्ववारके । बालके कार्तिकेये च कुमारो भर्तृदारके' इ'त त्रिकाण्डशेषः । तुषारा।