SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता [२३६ नन्दयन्तो नन्दका। ४०६ हन्तेर्मुद हि च । हेमन्तः। ४१० भन्देनलोपश्च । भदन्तः प्रव्रजितः । ४११ ऋच्छेररः। ऋच्छरा वेश्या। बाहुलकाजर्जरकर्म. रादयः। ४१२ अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् । षड्भ्योऽरश्चि. स्स्यात् । भररं कपाटम् । कमरः कामुकः । भ्रमरः चमरः । देवरः । वासरः । ४१३ कुवः करन् । कुररः पक्षिभेदः । ४१४ अङ्गिमदिमन्दिभ्य आरन् । इत्यपि । हन्तेर्मुट् हि च । हन हिंसागत्योः, अस्माज्झच्प्रत्ययः स्यात् , तस्य मुडागमः धाताहिशब्दादेशश्व । हेमन्त इति । धातोहिआदेशे गुणः। भन्देन. लोपश्च । भदि कल्याणे अस्माज्झच् स्यात् । धातोरिदित्त्वाल्लब्धनकारस्य लोपश्चेत्यर्थः। भदन्त इति । नलोपे झस्यान्तादेशे च रूपम् । ऋच्छेररः। ऋच्छ गतो, अस्मादरप्रत्यय इत्यर्थः । जर्जरभरादिशब्दानामपि लोके प्रयोगदर्शनादाह बाहुलकादिति । अर्तिकमिभ्रमि । ऋ गतौ, कमु कन्तौ, भ्रम अनवस्थाने, चमु अदने, दिवु कीडादौ, वस निवासे, एभ्यः अर प्रत्ययः स्यात् स च चिदित्यर्थः । चित्त्वं स्वरार्थम् । अररमिति । ऋधातोर्गुणे रूपम् । 'कवाटमररं तुल्ये' भ्रातर इत्यनुवृत्तौ 'स्वामिनो देवदेवत्' इति चामरः । कुवः करन् । कु शब्दे, अस्मात्करन्प्रत्ययः । ककारनकारावितो। कुरर इति । कित्त्वान गुणः। 'उत्कोशकुररौ समौ' इत्यमरः । अङ्गिमदि। अगिमगि इति दण्डकपठितो गत्यर्थः अगिः, मदि इहाप्याशिषीत्यस्य स्वयमेवानुवर्तितत्वात् । हन्तेः । हन हिंसागयोरस्माद् झन् प्रत्ययः स्यात्तस्य मुडागमः, धातोहिरादेशश्च । भन्देः। भदि कल्याणे सुखे च । अस्माद् झन् स्याद्धातो कारलोपश्च । ऋच्छेः । ऋच्छ गतौ। बाहुलकादिति । जर्ज चर्च झमें परिभाषणहिंसातर्जनेषु । परिभाषणभर्त्सनयोरिति तुदादौ । 'जर्जर शैवले शकध्वजे त्रिषु जरत्तरे । झरः स्यात्कलियुगे वाद्यभेदे नदान्तरे' इति च भेदिनी । बाहुलकादेव मस्य जादेशे जर इत्युज्ज्वलदत्तः । अर्तिकमि । ऋ गतो, कमु कान्तौ, भ्रम अनवस्थाने, चमु अदने, दिवु क्रीडादौ, वस निवासे, उभावपि रयन्तौ । 'अररं छदकपाटयोः' इति मेदिनी । 'कपाटमररं तुल्ये' इत्यमरः । 'भ्रमरः कामुके मो' इति मेदिनी। 'चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः' इति च । चमरो मृगमेदः । देवरः पत्युः कनिष्ठभ्राता । वासर इति । केचित्तु सूत्रे वाशिभ्य इति तालव्यं पठित्वा वा शब्द इत्यस्मादरप्रत्यये वाश्यत इति वाशरः कोकिल इत्याहुः । कुवः । कु शब्दे । अङ्गि। अगिर्गत्यर्थः, मदी हर्षे, मदि स्तुत्यादौ 'अङ्गार उल्मुके न स्त्री पुंल्लिगस्तु महीसुते' इति मेदिनी । 'मन्दारः स्यात्सुरद्रुमे । पारिभद्रेऽकपणे च मन्दारो हस्तिधूर्तयोः' इति च । मदि स्तुत्यादावित्यस्माद्बाहुलकादारुरपि ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy